Book Title: Agam Sutra Satik 02 Sutrakrut AngSutra 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 425
________________ ४२२ सूत्रकृताङ्ग सूत्रम् २/६/-/७३८/नि. [२००] रक्षयितुमारेभे, आर्द्रककुमारोऽप्यश्ववाहनिकया विनिर्गतः प्रधानाश्वेन प्रपलायितः । ततश्चप्रव्रज्या गृह्णन् देवतया सोपसर्गभवतोऽद्यापीति मणित्वा निवारितोऽप्यसावार्द्रको राज्यं तावन्न करोति कोऽन्यो मां विहाय प्रव्रज्यां ग्रहीष्यतीत्यभिसंधाय तां देवतामवगणय्य प्रव्रजितः।विहरनन्यदाऽन्यतरप्रतिमाप्रतिपन्नः कायोत्सर्गव्यवस्थितोवसन्तपुरेतया देवलोकच्युतया श्रेष्ठिदुहित्राऽपरदारिकामध्यगतयारमन्त्यै मम भर्तेत्येवमुक्ते सत्यनन्तरमेव तत्सन्निहितदेवतयाऽर्द्धत्रयोदशकोटिपरिमाणाशोभनं वृतमनयेति भणित्वाहिरण्यवृष्टिर्मुक्ता,तांच हिरण्यवृष्टिं राजागृह्णन्देवतया सद्युत्थानतो विधृतोऽभिहितंचतयायथा-एतद्धिरण्यजातमस्यादारिकायाः नान्यस्य कस्यचिदित्यतस्तपित्रा सर्वं संगोपितम्। आर्द्रककुमारोऽप्यनुकूलोपसर्गइतिमत्वाऽऽश्वेवान्यत्र गतः, गच्छतिच कालेदारिकाया वरकाः समागच्छन्ति, पृष्टौ च पितरौ तया-किमेषामागमनप्रयोजनं ?, कथितं च ताभ्यां यथैते तववरका इति, ततस्तयोक्त-तात! सकृत्कन्याः प्रदीयन्ते नानेकशः, दत्ताचाहंतस्मै यत्सम्बन्धि हिरण्यजातं भवद्भिर्गृहीतं, ततः सा पित्राऽभाणि-किं त्वंतं जानीषे? तयोक्तं-तत्पादगताभिज्ञानदर्शनतोजानामीति, तदेवमसौतत्परिज्ञानार्थ सर्वस्यभिक्षार्थिनो भिक्षांदापयितुं निरूपिता, ततोद्वादशभिर्वषैर्गतैः कदाचिच्चासौ भवितव्यतानियोगेन तत्रैवविहरन् समायातः, प्रत्यभिज्ञानतश्च तया तत्पादचिह्नदर्शनतः, ततोऽसौ दारिका सपरिवारा तत्पृष्ठतो जगाम, आर्द्रककुमारोऽपिदेवतावचनं स्मरंस्तथाविधकर्मोदयात्रावश्यंभाविभवितव्यतानियोगेन च प्रतिभग्न्स्तया सार्द्ध मुनक्ति भोगान्, पुत्रश्चोत्पन्नः। पुनराककुमारेणासावभिहिता-साम्प्रतंतेपुत्रो द्वितीयः अहंचस्वकार्यमनुतिष्ठामि, तया सुतव्युत्पादनार्थं कसकर्तनमारब्धं, पृष्टाचासौ बालकेन-किमम्बैतद्भवत्याप्रारब्धमितरजनाचरितं?, ततोऽसाववोचद-यथा तव पिता प्रव्रजितुकामः त्वं चाद्यापि शिशुरसमर्थोऽर्थार्जने ततोऽहमनाथास्त्रीजनोचितेनानिन्छन विधिनाऽऽत्मानं भवन्तं च किल पालयिष्यामीत्येतदालोच्येदमा-रब्धमिति। तेनापि बालकेनोत्पन्नप्रतिभया तत्कर्त्तितसूत्रेणैव कायं मद्बद्धो यास्यतीति मन्मनभाषिणोपविष्ट एवासौ पिता परिवेष्टितः, तेनापि चिन्तितं-यावन्तोऽमी बालककुतवेष्टनतन्तवस्तावन्त्येववर्षाणि मया गृहेस्थातव्यमिति, निरूपिताश्चतन्तवोयावद्वादशतावन्त्येववर्षाण्यसौ गृहवासे व्यवस्थितः, पूर्णेषुचद्वादशसुसंवत्सरेषुगृहान्निर्गतः प्रव्रजितश्चेति। ततोऽसौ सूत्रार्थनिष्प न्नएकाकिविहारेण विहरन् राजगृहाभिमुखं प्रस्थितः, तदन्तराले च तद्रक्षणार्थं यानि प्रापित्रा निरूपितानी पञ्च राजपुत्रशतानि तस्मिन्श्वेन नष्टे राजभयाद्वैलक्ष्याच्च न राजान्तिकं जग्मुः तत्राटवीदुर्गे चौर्येण वृत्ति कल्पितवन्तः, तैश्चासौ दृष्टः प्रत्यभिज्ञातश्च, तेच तेन पृष्टाः-किमिति भवद्भिरेवंभूतं कर्माश्रितं?, तैश्च सर्व राजभयादिकं कथितम्, आर्द्रककुमारवचनाच संबुद्धाः प्रव्रजिताश्च । तथा राजगृहनगरप्रवेशे गोशालको हस्तितापसा- ब्राह्मणाश्च वादे पराजिताः। तथाऽऽर्द्रककुमारदर्शनादेव हस्ती बन्धनाद्विमुक्तः,तेचहस्तितापसादय आर्द्रककुमारधर्मकथाक्षिप्ता जिनवीरसमवसरणे निष्कान्ताः। राज्ञाच विदितवृत्तान्तेनमहाकुतूहलापूरितहृदयेन पृष्टो-भगवन्! कयंत्वदर्शनतोहस्ती निरर्गलः संवृत्तइति?,महान् भगवतःप्रभाव इत्येवमभिहितः सन्नाककुमारोऽब्रवीत् नवमगाथयोत्तरं। नदुष्करमेतद्यन्नरपाशैर्बद्धमत्तवारणस्य विमोचनं वने राजन्! एतत्तुमे प्रतिभातिदुष्करं Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484