Book Title: Agam Sutra Satik 02 Sutrakrut AngSutra 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 415
________________ सूत्रकृताङ्ग सूत्रम् २/५/-/७२२ वृ. वेदना-कर्मानुभवलक्षणा तथा निर्जरा-कर्मपुद्गलशाटनलक्षणा एते द्वे अपि न विद्येते इत्येवं नो संज्ञां निवेशयत् । तदभावं प्रत्याशङ्काकारणमिदं, तद्यथा- पल्योपमसागरोपमशतानुभवनीयं कर्मान्तर्मुहूर्तेनैव क्षयमुपयातीत्यभ्युपगमात्, तदुक्तम् ॥१॥ "जं अन्नाणी कम्मं खवेइ बहुयाहिं वासकोडीहिं । नाणी तिहि गुत्तो खवे ऊसासमित्तेणं ॥ ४१२ इत्यादि, तथा क्षपकश्रेण्यां च झटित्येव कर्मणो भस्मीकरणाद्यथाक्रमबद्धस्य चानुभवनाभावे वेदनाया अभावः तदभावाच्च निर्जराया अपीत्येवं नो संज्ञां निवेशयेत् । किमिति ?, यतः कस्यचिदेव कर्मण एवमनन्तरोक्तया नीत्या क्षपणात्तपसा प्रदेशानुभवेन च अपरस्य तूदयोदीरणाभ्यामनुभवनमित्यतोऽस्ति वेदना, यत आगमोऽप्येवंभूत एव, तद्यथा- 'पुव्विं दुचिण्णाणं दुष्पडिकंताणं कम्माणं वेइत्ता मोक्खो, नत्थि अवेइत्ता' इत्यादि, वेदनासिद्धौ च निर्जराऽपि सिद्धैवेत्यतोऽस्ति वेदना निर्जरा चेत्येवं संज्ञां निवेशयेदिति । मू. (७२३) नत्थि किरिया अकिरिया वा, नेवं सन्नं निवेसए । अत्थि किरिया अकिरिया वा, एवं सन्नं निवेस ॥ वृ. वेदनानिर्जरे च क्रियाऽक्रियायत्ते, ततस्तत्सद्भावं प्रतिषेधनिषेधपूर्वकं दर्शयितुमाहक्रिया-परिस्पन्दलक्षणा तद्विपर्यस्ता त्वक्रिया, ते द्वे अपि 'न स्तो' न विद्येते, तथाहि - सांख्यानां सर्वव्यापित्वादात्मन आकाशस्येव परिस्पन्दात्मिका क्रिया न विद्यते, शाक्यानां तु क्षणिकत्वात्सर्वपदार्थानां प्रतिसमयमन्यथा चान्यथा चोत्पत्तेः पदार्थसत्तैव, न तद्व्यतिरिक्ता काचित्क्रियाऽस्ति, तथा चोक्तम्- "भूतिर्येषां क्रिया सैव, कारकं सैव चोच्यते" इत्यादि, तथा सर्वपदार्थानां प्रतिक्षणमवस्थान्तरगमनात्सक्रियत्वमतोऽक्रिया न विद्यते इत्येवं संज्ञां नो निवेशयेत्, किं तर्हि ?, अस्ति क्रिया अक्रिया चेत्येवं संज्ञां निवेशयेत् तथाहि शरीरात्मनोर्देशाद्देशान्तरावाप्तिनिमित्ता परिस्पन्दात्मिका क्रिया प्रत्यक्षेणैवोपलभ्यते, सर्वथा निष्क्रियत्वे चात्मनोऽभ्युपगम्यमाने गगनस्येव बन्धमोक्षाद्यभावः, स च दृष्टेष्टबाधितः, तथा शाक्यानामपि प्रतिक्षणोत्पत्तिरेव क्रियेत्यतः कथं क्रियाया अभावः ? अपि च-एकान्तेन क्रियाऽभावेसंसारमोक्षाभावः स्यादित्यतोऽस्ति क्रिया, तद्विपक्षभूता चाक्रियेत्येवं संज्ञांनिवेशयेदिति तदेवं सक्रियात्मनि सति क्रोधादिसद्भाव इत्येतद्दर्शयितुमाहभू. (७२४) नत्थि कोहे व माणे वा, नेवं सन्नं निवेसए । - अत्थि कोहे व माणे वा, एवं सन्नं निवेसए । वृ. स्वपरात्मनोरप्रीतिलक्षणः क्रोधः, च चानन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणसंज्चलनभेदेन चतुर्धाऽऽगमे पठ्यते, तथैतावद्भेद एव मानो गर्व, एतौ द्वावपि 'न स्तो' न विद्येते, तथाहि - क्रोधः केषांचिन्मतेन मानांश एव अभिमानग्रहगृहीतस्य तत्कृतावत्यन्तक्रोधोदयदर्शनात्, क्षपक श्रेण्यां च भेदेन क्षपणानभ्युपगमात्, तथा किमयमातन्धर्म आहोस्वित्कर्मण उतान्यस्येति तत्रात्मधर्मत्त्वे सिद्धानामपि क्रोधोदयप्रसङ्गः, अथ कर्मणस्ततस्तदन्यकषायोदयेऽपि तदुदय-प्रसङ्गात् मूर्तत्वाच्च कर्मणो घटस्येव तदाकारोपलब्धिः स्याद्, अन्यधर्मत्वे त्वकिञ्चित्करत्वमतो नास्ति क्रोध इत्येवं मानाभावोऽपि वाच्य इत्येवं संज्ञां नो निवेशयेत् । यतः कषायकर्मोदयवर्ती दष्टष्ठः कृतभ्रुकुटीभङ्गो रक्तवदनो गलत्स्वेदबिन्दुसमाकुलः क्रोधाध्मातः समुपलभ्यते, न चासौ मानांशः, तत्कार्याकरणात् तथा परनिमित्तोत्थापितत्वाच्चेति, Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484