Book Title: Agam Sutra Satik 02 Sutrakrut AngSutra 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
४१४
सूत्रकृताङ्ग सूत्रम् २/५/-1७२७ सर्वेऽप्येकविधा एव, तथा मनुष्या अपि कर्मभूमिजाकर्मभूमिजान्तरद्वीपकसंमूर्च्छनजात्मकभेदमनात्यैकविधत्वेनैवाश्रिताः। मू. (७२८) नस्थि देवो व देवी वा, नवं सन्नं निवेसए।
अस्थि देवो व देवी वा, एवं सन्नं निवेसए।। वृ.तथा देवा अपिभवनपतिव्यन्तरज्योतिष्कवैमानिकभेदेन भिन्नाएकविधत्वेनैव गृहीताः तदेवंसामान्यविशेषाश्रयणाचातुर्विध्यं संसारस्य व्यवस्थितनैकविधत्वं, संसारवैचित्र्य-दर्शनात, नाप्यनेकविधत्वं सर्वेषां नरकादीनांस्वजात्यनतिक्रमादिति । सर्वभावानांसप्रतिपक्षत्वात्संसारसद्भावे सति अवश्यं तद्विमुक्तिलक्षणया सिद्ध्यापि भवितव्यमित्यतोऽधुना सप्रतिपक्षां सिद्धिं दर्शयितुमाहमू. (७२९) नत्थ सिद्धी असिद्धी वा, नेवं सन्नं निवेसए।
अस्थि सिद्धि असिद्धी वा, एवं सन्नं निवेसए॥ वृ.सिद्धि अशेषकर्मच्युतिलक्षणा तद्विपर्यस्ता चासिद्धिास्तीत्येवं नो संज्ञां निवेशयेद्, अपि त्वसिद्धेः-संसारलक्षणायाश्चातुर्विध्येनान्तरमेव प्रसाधिताया अविगानेनास्तित्वं प्रसिद्धं, तद्विपर्ययेण सिद्धेरप्यस्तित्वमनिवारितमित्यतोऽस्ति सिद्धिरसिद्धिर्वेत्येवं संज्ञां निवेशयेदिति स्थितम्, इदमुक्तं भवति-सम्यग्दर्शनशानचारित्रात्मकस्यमोक्षमार्गस्य सद्भावात्कर्मक्षयस्य च पीडोपशमादिनाऽध्यक्षेण दर्शनादतः कस्यचिदात्यन्तिककर्महानिसिद्धरस्ति सिद्धिरिति, तथा चोक्तम् - ॥१॥ “दोषावरणयोहानिनिःशेषाऽस्त्यतिशायिनी।
क्वचिद्यथा स्वहेतुभ्यो, बहिरन्तर्मलक्षयः ।। इत्यादि, एवं सर्वज्ञसद्भावोऽपिसंभवानुमानाष्टव्यः, तथाहि-अभ्यस्यमानायाःप्रज्ञाया व्याकरणादि शास्त्रसंस्कारेणोत्तरोत्तरवृद्धया प्रज्ञातिशयो दृष्टः, तत्र कस्यचिदत्यन्तातिशयप्राप्तेः सर्वज्ञत्वं स्यादिति संभवानुमानं, न चैतदाशनीयं, तद्यथा-ताप्यमानमुदकमत्यन्तोष्णतामियानाग्निसाद्भवेत्, तथा॥१॥ “दशहस्तान्तरं व्योम्नि यो नामोस्तु त्यगच्छति ।
नयोजनमसी गन्तुं, शक्तोऽभ्यासशतैरपि ।। इति, दृष्टान्तदाéन्तिकयोरसाम्यात्, तथाहि-ताप्यमानंजलंप्रतिक्षणं क्षयं गच्छेत् प्रज्ञा तु विवर्द्धते, यदिवा प्लोषोपलब्धेरव्याहतमग्नित्वं, तथाप्लवनविषयेऽपिपूर्वमर्यादाया अनतिक्रमाद्योजनोतप्लवनाभावः,तत्परित्यागे चोत्तरोत्तरंवृद्धयाप्रज्ञाप्रकर्षगमनवद्योजनशतमपिगच्छेदित्यतो दृष्टान्तदान्तिकयोरसाम्यादेतनाशनीयमिति स्थितम्, प्रज्ञावृद्धेश्च बाधकप्रमाणाभावदस्ति सर्वज्ञत्वप्राप्तिरिति । यदिवा अअनभृतसमुद्गकदृष्टान्तेन जीवाकुलत्वाजगतो हिंसाया दुर्निवारत्वात्सिद्धयभावः, तथा चोक्तम् - ॥१॥ "जले जीवाः स्थले जीवा, आकाशे जीवमालिनि।
___जीवमालाकुले लोके, कथं भिक्षुरहिंसकः॥ इत्यादि,तदेवंसर्वस्यैव हिंसकत्वात्सिद्धयभाव इति, तदेतदयुक्तं, तथाहि-सदोपयुक्तस्य पिहिताश्रवद्वारस्य पञ्चसमितिसमितस्य त्रिगुप्तिगुप्तस्य सर्वथा निरवद्यानुष्ठायिनोद्विचत्वारिंशद्दोषरहितभिक्षाभुज ईर्यासमितस्य कदाचिद्रव्यतः प्राणिव्यपरोपणेऽपि तत्कृतबन्धामावः, सर्वथा Jain Education International
___www.jainelibrary.org
For Private & Personal Use Only

Page Navigation
1 ... 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484