Book Title: Agam Sutra Satik 02 Sutrakrut AngSutra 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
३५८
सूत्रकृताग सूत्रम् २/२/-/६६७ कुर्कुटादिकरणेन दम्भप्रधानवणिक्श्रोत्रियसाध्वाकारेण परवञ्चनार्थं गलकर्तकानामिवावस्थानं, देशभाषानेपथ्यादिविपर्ययकरणं कपटं यथा आषाढभूतिना नटेनेवापरापरवेषपरावृत्याऽऽचार्योपाध्यायसंघाटकात्मार्थं चत्वारो मोदका अवाप्ताः, तु-कार्षापणतुलाप्रस्थादेः परवञ्चनार्थ न्यूनाधिककरणम्, एतैरुत्कुञ्चनादिभिः सहातिशयेन संप्रयोगो यदिवा-सातिशयेन द्रव्येणकस्तूरिकादिनाऽपरस्य द्रव्यस्य संप्रयोगः सातिसंप्रयोगस्तद्बहुलाः-तप्रधाना इत्यर्थः, उक्तंच॥१॥ “सो होई सातिजोगो दव्वं जंछादियण्णदव्वेसु ।
दोसगुणा वयणेसुय अत्यविसंवायणं कुणइ ।। एते चोत्कुञ्चनादयो मायापर्याया इन्द्रशक्रादिवत् कथञ्चिक्रियाभेदेऽपि द्रष्टव्याः । तथा दुष्टं शीलं येषां ते दुःशीलाः-चिरमुपचरिता अपि क्षिप्रं विसंवदन्ति, दुःखानुमेया दारुणस्वभावा इत्यर्थः, तथा दुष्टानिव्रतानि येषां ते तथा यथामांसभक्षणव्रतकालसमाप्तौ प्रभूततरसत्वोपघातेन मांसप्रदानम्, अन्यदपि नक्तभोजनादिकं तेषां दुष्टव्रतमिति, तथाऽन्यस्मिन् जन्मान्तरे मधुमद्यमांसादिकमभ्यवहरिष्यामीत्येवमज्ञानान्धाजन्मान्तरविधिद्वारेणसनिदानमेवव्रतं गृह्णन्ति, तथादुःखेनप्रत्यानन्धन्ते दुष्प्रत्यानन्द्याः, इदमुक्तंभवति-तैरानन्दितेनापरेण केनचित्प्रत्युपकारेप्सुना गर्वाध्माता दुःखेन प्रत्यानन्द्यन्ते, यदिवा सत्यप्युपकारे प्रत्युपकारमीरवो नैवानन्द्यन्ते प्रत्युत शठतयोपकारे दोषमेवोत्पादयन्ति, तथा चोक्तम् - ॥१॥ “प्रतिकर्तुमशक्तिष्ठा, नराः पूर्वोपकारिणाम्।
दोषमुत्पाद्य गच्छन्ति, मद्गूनामिव वायसाः॥ यतएवमतोऽसाधवस्त पापकर्मकारित्वात्, तथा यावजीवं' यावतप्राणधारणेनसर्वस्माप्राणातिपातादप्रतिविरता लोकनिन्दनीयादपि ब्राह्मणघातादेरविरता इति सर्वग्रहणं, एवं सर्वस्मादपिकूटसाक्ष्यादेरप्रतिविरता इति, तथा सर्वस्मात्स्त्रीबालादेः परद्रव्यापहरणादविरताः, तथा सर्वस्मात्परस्त्रीगमनादेमैथुनादविरताः, एवं सर्वस्मात्परिग्रहाद्योनिपोपकादप्यविरताः, एवं सर्वेभ्यः क्रोधमानमायालोभेभ्योऽविरताः, तथा प्रेमद्वेषकलहाभ्याख्यानपैशुन्यपरपरिवादारतिरतिमायामृषावादमिथ्यादर्शनशल्यादिभ्योऽसदनुष्ठानेभ्योयावज्जीवं येऽप्रतिविरता भवन्तीति तथा सर्वस्मात्स्नानोन्मर्दनवर्णकविलेपनशब्दस्पर्शरूपरसगन्धमाल्यालङ्कारात्कामाङ्गान्मोहजनितादप्रतिविरता यावनीवयेति, इह च वर्णकग्रहणेन वर्णविशेषापादकं लोघ्रादिकं गृह्यते, तथा सर्वतः शकटरथादेर्यानविशेषादिकाप्रतिविस्तरविधेः परिकररूपात्परिग्रहादप्रतिविरताः, इह च शकटरथादिकमेव यानं शकटरथयानं, युग्यं-पुरुषोक्षिप्तमाकाशयानं "गिल्लि'त्ति पुरुषद्वयोरिक्षप्ता झोल्लिका 'थिल्लित्ति वेगसराद्वयविनिर्मितो यानविशेषः तथा 'संदमाणिय'त्ति शिबिकाविशेष एव, तदेवमन्यस्मादपि वस्त्रादेः परिग्रहादुपकरणभूतादविरताः।।
तथा सर्वतः-सर्वस्माक्रयविक्रयाभ्यां करणभूताभ्यां यो माषकार्धमाषकरूपकार्षापणादिभिः पण्यविनिमयात्मकः संव्यवहारस्तस्मादविरता यावजीवयेति, तथा सर्वस्माद्धिरण्यसुवणदिः प्रधानपरिग्रहादविरताः, तथा कूटतुलकूटमानादेरविरताः, तथा सर्वतः कृषिपाशुपाल्यादेर्यत्स्वतः करणमन्येन च यत्किञ्चित्कारयति तस्मादविरताः, तथा पचनपाचनतः तथा कण्डनकुट्टनपिट्टन-तर्जनाताडनवधबन्धादिनायः परिक्लेशः प्राणिनांतस्मादविरताः, साम्प्रतमुप
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484