________________
१३८
आचाराङ्ग सूत्रम् १/-/२/५/८९ गुरुतरत्वात् प्राधान्यख्यापनार्थं पुनरुपादानां, ततश्चायमर्थः - गन्धग्रहणेनाद्याकर्म्म १ औद्देशिकत्रिकं २ पूतिकर्म्म ३ मिश्ररजातं ४ बादरप्राभृतिका ५ अध्यवपूरक ६ श्चैते षडुद्गमदोषा अविशुद्धकोव्यन्तर्गता गृहीताः, शेषास्तु विशुद्धकोव्यन्तर्भूता आमग्रहणेनोपात्ता द्रष्टव्या इति, सर्वशब्दस्य च प्रकारकात्स्न्यभिधायकत्वाद् येन केनचित् प्रकारेण आमम्-अपरिशुद्धं पूति वा भवति तत्सव ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया 'निरामगन्धः' निर्गतावामगन्धौ यस्मात्स तथा 'परिव्रजेत्' मोक्षमार्गे ज्ञानदर्शनचारित्राख्ये परिः समन्ताद्गृच्छेत् संयमानुष्ठानं सम्यगनुपालयेदितियावत् । आमग्रहणेन प्रतिषिद्धेऽपि क्रीतकृते तथाप्यल्पसत्त्वानां विशुद्धकोट्यालम्बनतया मा भूत्तत्र प्रवृत्तिरस्तदेव नामग्राहं प्रतिषिषेधिषुराह
मू. (९०) अदिस्समाणे कयविक्येसु, से न किणे न किणावए किणंतं, न समणुजाणइ, सेभिक्खू काल बालने मायने खेयन्त्रे खणयन्ने विणयन्त्रे ससमयपरसमयन्ने भावन्ने परिग्गहं अममायमाणे कालाणुट्ठाई अपडिण्णे |
,
वृ. क्रयश्च विक्रयश्च क्रयविक्रयौ तयोर दृश्यमानः कीद्दक्षश्च तयोरध्श्यमानो भवति ?, यतस्तयोर्निमित्तभूतद्रव्यामावादकिञ्चनोऽथवा क्रयविक्रययोरदिश्यमानः - अनपदिश्यमानः कश्च तयोरनपदिश्यमानो भवति ?, यः क्रीतकृतापरिभोगी भवतीति आहच- 'सेण किणे' इत्यादि, 'स' मुमुक्षुरकिञ्चनो धर्मोपकरणमपि न क्रीणीयात् स्वतो नाप्यपरेण क्रापयेत् क्रीणन्तमपि न समनुजानीयाद्, अथवा निरामगन्धः परिव्रजेदित्यत्रामग्रहणेन हननकोटित्रिकं गन्धग्रहणेन पचनकोटित्रिकं क्रयणकोटित्रिकं तु पुनः स्वरूपेणैवोपात्तम्, अतो नवकोटिपरिशुद्धमाहार विगताङ्गारधूमं भुञ्जीत, एतद्गुणविशिष्टश्च किंभूतो भवतीत्याह- 'से भिक्खू कालन्ने' कालःकर्त्तव्यावसरस्तं जानातीति कालज्ञः - विदितवेद्यः, कतथा 'बालन्ने' बलज्ञः बलं जानातीति बलज्ञः, छान्दसत्वाद्दीर्घत्वं, आत्मबलं सामर्थ्य जानातीति यथाशक्त्यनुष्ठानविधायी, अनिगूहितबलवीर्य इत्यर्थः, तथा 'मायन्त्रे' यावद्रव्योपयोगिता मात्रा तां जानातीति तज्ज्ञः, तथा 'खेयने' खेदःअभ्यासस्तेन जानातीति खेदज्ञः अथवा खेदः - श्रमः संसारपर्यटनजनितस्तं जानातीति, उक्तंच “जरामरणदौर्गत्यव्याधयवस्तावदासताम् ।
119 (1
मन्ये जन्मैव धीरस्य, भूयो भूयस्त्रपाकरम् ॥”
इत्यादि, अथवा 'क्षेत्रज्ञः' संसक्तविरुद्धद्रव्यंपरिहार्यकुलादिक्षेत्रस्वरूपपरिच्छेदकः, तथा 'खणयन्नो' क्षण एव क्षणकः - अवसरो भिक्षार्थमुपसर्पणादिकस्तं जानातीति तथा 'विणयत्रे' विनयो- ज्ञानदर्शनचारित्रौपचारिकरूपस्तं जानातीति, तथा 'ससमयपरसमयन्ने' स्वसमयपरसमयी जानातीति, स्वसमयज्ञो गोचरप्रदेशादी पृष्टः सन् सुखेनैव भिक्षादोषानाचष्टे, तद्यथाषोडशोद्गमदोषाः, ते चामी -आधाकर्म्म १ औद्देशिकं २ पूतिकर्म्म ३ मिश्रजातं ४ स्थापना ५ प्राभृतिका ६ प्रकाशकरणं ७ क्रीतं ८ उद्यतकं ९ परिवर्त्तितं १० अभ्याहृतं ११ उद्भिन्नं १२ मालापहृतं १३ आच्छेद्यं १४ अनिसृष्टं १५ अध्यवपूरकश्चेति १६ । षोडशोत्पादनदोषाः, ते चामी -धात्रीपिण्डः १ दूतीपिण्डः २ निमित्तपिण्डः ३ आजीवपिण्डः ४ वनीपकपिण्डः ५ चिकित्सापिण्डः ६ क्रोधपिण्डः ७ मानपिण्डः ८ मायापिण्डः ९ लोभपिण्डः १० पूर्वसंस्तवपिण्डः ११ पश्चात्संस्तवपिण्डः १२ विद्यापिण्डः १३ मन्त्रपिण्डः १४ चूर्णयोगपिण्डः १५
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org