________________
आचाराङ्ग सूत्रम् १/-/३/१/११३
नवविधं निद्रापञ्चकदर्शनचतुष्टयसमन्वयाद् एतत् सर्वजीवस्थानानुयायि, गुणस्थानेष्वप्यनिवृत्तिबादरकालसङ्ख्येयभागान् यावत् १, ततः कतिचित्सङ्ख्येयभागावसाने स्त्यानर्द्धित्रयक्षयात् षट्सत्कर्म्मतास्थानं २, ततः क्षीणकषायद्विचरमसमये निद्राप्रचलाद्वयक्षयाञ्च्चतुःसत्कर्म्मतास्थान, तस्यापि क्षयः क्षीणकषायकालान्त इति ३ | वेदनीयस्य द्वे सत्कर्म्मतास्थाने, तद्यथा द्वे अपि साता साते इत्येकं, अन्यतरोदयारूढशैलेश्यवस्थेत रद्विचरमक्षणक्षये सति सातमसातं वा कर्मेति द्वितीयं २ | मोहनीयस्य पञ्चदश सत्कर्म्मतास्थानानि, तद्यथा
-
१६४
-
षोडश कषाया नव नोकषाया दर्शनत्रये सति सम्यग्दृष्टेरष्टाविंशतिः १, सम्यक्त्वोद्वलने सम्यग् मिथ्यादृष्टेः सप्तविंशतिः २, दर्शनद्वयोद्दलनेऽनादिमिथ्याध्ष्टेर्वा षड्विंशतिः ३, सम्यग्दृष्टेष्टाविंशतिसत्कर्म्मणोऽनन्तानुबन्ध्युलने क्षपणे वा चतुर्विंशतिः ४, मिथ्यात्वक्षये त्रयोविंशतिः ५, सम्यग्मिथ्यात्वक्षये द्वाविंशतिः ६, क्षायिकसम्यग्दृष्टेरेकविंशतिः ७, अप्रत्याख्यानप्रत्याख्यानावरणक्षये त्रयोदश ८, अन्यतरवेदक्षये द्वादश ९, द्वितीयवेदक्षये सत्येकादश १०, हास्याद्विषट्कये पञ्च ११, पुंवेदाभावे चत्वारि १२, सञ्जवलनक्रोधक्षये त्रयः १३, मानक्षये १४, मायाक्ष सत्येको लोभः १५, तत्क्षये च मोहनीयासत्तेति आयुषो द्वे सत्कर्मतास्थाने सामान्येन, तद्यथा- परभवायुष्कबन्धोत्तरकालमायुष्कद्वयमेकं १, द्वितीयं तु तद्बन्धाभाव इति । नाम्नो द्वादश सत्कर्म्मतास्थानानि तद्यथ - त्रिनवतिः १ द्विनवतिः २ एकोननवतिः ३ अष्टाशीतिः ४ षडशीतिः ५ अशीतिः ६ एकोनाशीतिः ७ अष्टसप्ततिः ८ षट्सप्ततिः ९ पञ्चसप्ततिः १० नव ११ अष्टौ १२ चेति, तत्र त्रिनवतिः - गतयश्चत स्रः ४ पञ्च जातयः ५ पञ्च शरीराणि ५ पञ्च सङ्घाताः ५ बन्धनानि पञ्च ५ संस्थानानि षट् ६ अङ्गोपाङ्गत्रयं ३ संहननानि षट् वर्णपञ्चकं ५ गन्धद्वयं २ रसाः पञ्च ५ अष्टौ स्पर्शा ८ आनुपूर्वीचतुष्टयं ४ अगुरुलधूपघातपराधातोच्छ्वासातपोद्योताः षट् ६ प्रशस्तेतरविहायोगतिद्वयं २ प्रत्येकशरीरत्रसशुभसुभगसुस्वरसूक्ष्मपर्याप्तक स्थिरादेययशांसि सेतराणीति विंशतिः २० निर्माणं तीर्थकरत्वमित्येवं सर्वसमुदाये त्रिनवतिर्भवति ९३, तीर्थकरनामाभावे द्विनवतिः ९२, त्रिनवतेराहारकशरीरसङ्गातबन्धनाङ्गोपाङ्गचतुष्टयाभावे सत्येकोननवतिः ८९, ततोऽपि तीर्थकरनामाभावेऽष्टाशीतिः ८८, देवगतितदानुपूर्वीद्वयोद्वलने षडशीतिः ८६, यदिवा अशीतिसत्कर्मणो नरकगतिप्रायोग्यं बघ्नतः तद्गत्यानुपूर्वीद्वय वैक्रियचतुष्कबन्धकस्य षडशीतिः देवगतिप्रायोग्यबन्धकस्य वेति, ततो नरकगत्यानुपूर्वीद्वय वैक्रिरियचतुष्टयोद्वलनेऽशीतिः ८० पुनर्मनुष्यगत्यानुपूर्वीद्वयलनेऽष्टसप्ततिः ७८, एतान्यक्षपकाणां सत्कर्म्मतास्थानानि ।
"
क्षपकश्रेण्यन्तर्गतानां तु प्रोच्यन्ते, तद्यथा- त्रिनवतेर्नरकतिर्यग्गतितदानुपूर्वीद्वयैकद्वित्रिचतुरिन्द्रियजात्यातपोद्योत स्थावरसूक्ष्मसाधारणरूपैर्नरकतिर्यग्गतिप्रायोग्यैस्त्रयो- दशभिः कम्र्म्मभिः क्षपितैरशीतिर्भवति, द्विनवतेस्त्वेभिस्त्रयोदशभिः क्षपितैरेकोनाशीतिः, याऽसावहारकचतुष्टयापगमेनैकोननवतिः सआता ततस्त्रयोदशनाम्नि क्षपिते षटसप्ततिर्भवति, तीर्थकर नामाभावापादिताऽथशीतिः, अष्टाशीतेस्त्रयोदशनामाभावे पञ्चसप्ततिः, तत्राशीतेः षट्सप्ततेर्वा तीर्थकरकेवलिशैलेश्यापनद्विचरमसमये तीर्थकरनाम्नः प्रक्षेपात् वेद्यमाननवकप्रकृतिव्युदासेन क्ष्यमुपगते शेषनाम्नि अन्त्यसमये नवसत्कर्म्मतास्थानं, ताश्च वेद्यमाना नवेमाः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org