Book Title: Agam Sutra Satik 01 Aachar AngSutra 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
४३२
आचाराङ्ग सूत्रम् २/३/91-1- [नि. ३३६]
नि. [३३६] गणियं निमित्त जुत्ती संदिट्ठी अवितहं इमं नाणं ।
__ इय एगंतमुवगया गुणपच्चइया इमे अत्था ॥ नि. [३३७] गुणमाहप्पं इसिनामकित्तणं सुरनरिंदपूया य।
पोराणचेइयाणि य इय एसा दंसणे होइ॥ प्रवचनविदाममी गुणप्रत्ययिका अर्था भवन्ति, तद्यथा-गणितविषये-बीजगणितादौ परं पारमुपगतोऽयं, तथाऽष्टाङ्गस्य निमित्तस्य पारगोऽयं, तथा दृष्टिपातोक्ता नानाविधा युक्तोःद्रव्यसंयोगान् हेतून्वा वेत्ति, तथा सम्यग्-अविपरीता सृष्टि-दर्शनमस्य त्रिदशैरपि चालयितुमशक्या तथाऽवितथमस्येदं ज्ञानं यथैवायमाह तत्तथैयेत्येवं प्रावचनिकस्याचार्यादेः प्रशंसां कुर्वतो दर्शनविशुद्धिर्भवतीति,
एवमन्यदपि गुणमाहात्यमाचादिवर्णयतः तथा पूर्वमहर्षीणां च नामोत्कीर्तनं कुर्वतः तेषामेव च सुरनरेन्द्रपूजादिकं कथयतः तथा चिरन्तनचैत्यानि पूजयतः इत्येवमादिकां क्रियां कुर्वतस्तद्वासनावासितस्य दर्शनविशुद्धिर्भवतीत्येषा प्रशस्ता दर्शनविषया भावनेति ।। ज्ञानभावनामधिकृत्याहनि. [३३८] तत्तं जीवाजीवा नायब्वा जाणणा इहं दिट्ठा ।
इस वजकरणकारगसिद्धी इह बंधभुक्खोय।। नि. [३३९] बद्धो य बंधहेऊ बंधणबंधप्फलं सुकहियं तु ।
संसारपवंचोऽवि य इहयं कहिओ जिनवरेहि नि. [३४०] नाणं भविस्सई एवमाइया वायणाइयाओय।
सज्झाए आउत्तो गुरुकुलवासो य इय नाणे॥ वृ.तत्र ज्ञानस्य भावना ज्ञानभावना-एवंभूतं मौनीन्द्रं ज्ञानं प्रवचनं यथाऽवस्थिताशेषपदार्थाविर्भावकमित्येवंरूपेति, अनया च प्रधानमोक्षाङ्ग सम्यक्त्वमाधिगमिकमाविर्भवति, यतस्तत्वार्थश्रद्धानं सम्यग्दर्शनं, तत्त्वं च जीवाजीवादयो नव पदार्था, ते च तत्त्वज्ञानार्थिना सम्यग् ज्ञातव्याः, तत्परिज्ञानमिहैव-आर्हतेप्रवचने दृष्टम्-उपलब्धमिति, तथेहैव-आर्हते प्रवचने कार्य-परमार्थरूपं मोक्षाख्यंतथाकरणं-क्रियासिद्धौ प्रकृष्टोपकारकं सम्यग्दर्शनज्ञानचारित्राणि, कारकः-साधुः सम्यग्दर्शनाद्यनुष्ठाता, क्रियासिद्धिश्च-इहैव मोक्षावाप्तिलक्षणा,
तामेवदर्शयति-बन्धः-कर्मबन्धनंतस्मान्मोक्षः-कर्मविचटनलक्षणः,असावपीहैव, नान्यत्र शाक्यादिकप्रवचने भवति, इत्येवं ज्ञानं भावयतो ज्ञानभावना भवतीति । तथा 'बद्धः' अष्टप्रकारकर्मपुद्गलैः प्रतिप्रदेशमवष्टब्धो जीवः, तथा 'बन्धहेतवः' मिथ्यात्वाविरतिप्रमादकषाययोगाः तथा बन्धनम्-अष्टप्रकारकर्मवर्गणारूपं तत्फलं-चतुर्गतिसंसारपर्यटनसातासाताद्यनुभवनरूपमिति, एतत्सर्वमत्रैव सुकथितम्, अन्यद्वा यत्किञ्चित्सुभाषितं तदिहैव प्रवचनेऽभिहितमिति ज्ञानभावना, तथा विचित्रसंसारप्रपञ्चोऽत्रैव जिनेन्द्रैः कथित इति।
तथा ज्ञानं मम विशिष्टतरं भविष्यतीति ज्ञानभावना विधेया, ज्ञानमभ्यसनीयमित्यर्थं, आदिग्रहणादेकाग्रचित्ततादयो गुणा भवन्तीति, तथैतदपि ज्ञाने भावनीयं, यथा-"जं अन्नाणी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468