Book Title: Agam Sutra Satik 01 Aachar AngSutra 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
श्रुतस्कन्धः - २, चूडा-४
नि. [ ३४६ ] जो चेव होइ मुक्खो सा उ विमुत्ति पगयं तु भावेणं । देसविमुक्का साहू सव्वविमुक्का भवे सिद्धा ।।
वृ. य एव मोक्षः सैव विमुक्ति, अस्याश्च मोक्षवनिक्षेप इत्यर्थ, प्रकृतम् - अधिकारो भावविमुक्त्येति, भावविमुक्तिस्तु देशसर्वभेदाद्देधा, तत्र देशत साधूनां भवस्थकेवलिपर्यन्तानां, सर्वविमुक्तास्तु सिद्धा इति, अष्टविधकर्मविचटनादिति ॥ सूत्रानुगमे सूत्रमुच्चारयितव्यं, तच्चदम्मू. (५४१) अनिचमावासमुविंति जंतुणो, पलोयए सुच्चमिणं अनुत्तरं ।
४४५
विउसिरे विनु अगारबंधणं, अभीरु आरंभपरिग्गहं चए ॥
वृ. आवसन्त्यस्मिन्नित्यावासो-मनुष्यादिभवस्तच्छरीरं वा तमनित्यमुप- सामीप्येन यान्तिगच्छन्ति जन्तवः - प्राणिन इति, चतसृष्वपि गतिषु यत्र यत्रोत्पद्यन्ते तत्र तत्रानित्यभावमुपगच्छन्तीत्यर्थ, एतच्च मौनीन्द्रं प्रवचनमनुत्तरं श्रुत्वा 'प्रलोकयेत्' पर्यालोचयेद्, यथैव प्रवचनेऽनित्यत्वादिकमभिहितं तथैव लक्ष्यते - ६श्यते इत्यर्थ ।
एतच श्रुत्वा प्रलोक्य च विद्वान् 'व्युत्सृजेत्' परित्यजेत् 'अगारबन्धनं' गृहपाशं पुत्रकलत्रधनधान्यादिरूपं, किम्भूतः सन् ? इत्याह 'अभीरु' सप्तप्रकारभयरहितः परीषहोपसगप्रिधृष्यश्च 'आरम्भ' सावद्यमनुष्ठानं परिग्रहं च सवाह्याभ्यन्तरं त्यजेदिति साम्प्रतं पर्वताधिकारे, - मू. (५४२) तहागयं भिक्खुमनंतसंजयं, अनेलिसं विन्नु चरंतमेसणं ।
तुदति वायाहि अभिद्दवं नरा, सरेहिं संगामगयं व कुंजरं ॥
वृ. तथाभूतं साधुम् - अनित्यत्वादिवासनोपेतं व्युत्सृष्टगृहबन्धनं त्यक्तारम्भपरिग्रहं, तथाऽनन्तेष्वेकेन्द्रियादिषु सम्यग् यतः संयतस्तम् 'अनीदृशम्' अनन्यसदृशं 'विद्वांसं' जिनागमगृहीतसारम् 'एषणायां चरन्तं' परिशुद्धाहारादिना वर्त्तमानं, तमित्थंभूतं भिक्षं 'नरा' मिथ्याध्ष्टयः पापोपहतात्मानः 'वाग्भि' असभ्यालापैः 'तुदन्ति' व्यथन्ते, पीडामुत्पादयन्तीत्यर्थ, तथा लोष्टप्रहारादिभिरभिद्रवन्तिच, कथमिति दृष्टान्तमाह- शरैः सङ्ग्रामगतं कुञ्जरमिव ॥ २ ॥ अपिच
मू. (५४३) तहप्पगारेहिं जणेहिं हीलिए, ससद्दफासा फरुसा उईरिया । तितिक्खए नणि अदुट्ठचेयसा, गिरिव्व वाएण न संपवेयए ।।
वृ. ‘तथाप्रकारैः' अनार्यप्रायैर्जनैः 'हीलितः' कदर्थितः, कथं ?, यतस्तैः परुषास्तीब्राः सशब्दाः- साक्रोशाः स्पर्शा-शीतोष्णादिका दुःखोत्पादका उत्-प्राबल्येनेरिता-जनिताः कृता इत्यर्थ, तांश्च स मुनिरेवं हीलितोऽति 'तितिक्षते' सम्यक्सहते, यतोऽसौ 'ज्ञानी' पूर्वकृतकर्म एवायं विपाकानुभव इत्येवं मन्यमानः, 'अदुष्टचेताः ' अकलुषान्तःकरणः सन् 'न तैः संप्रवेपते' न कम्पते गिरिरिव वातेनेति अधुना रूप्यधष्टान्तमधिकृत्याह
मू. (५४४) उवेहमाणे कुसलेहिं संवसे, अकंतदुक्खी तसथावरा दुही। अलूसए सव्वसहे महामुनी, तहा हि से सुस्समणे समाहिए ।।
वृ. 'उपेक्षमाणः परीषहोपसर्गान् सहमान इष्टानिष्टविषयेषु वोपेक्षमाणोमाध्यस्थ्यमवलम्बमानः ‘कुशलैः ' गीतार्थे सहसंवसेदिति, कथम् ?, अकान्तम्- अनभिप्रेतं दुःखम्असातावेदनीयं तद्विद्यते येषां त्रसस्थावराणां तान् दुःखिनस्त्रसस्थावरान् 'अलूषयन्' अपरितापयन् पिहिताश्रवद्वारः पृथ्वीवत् 'सर्वंसहः' परीषहोपसर्गसहिष्णुः 'महामुनि' सम्यग्जगत्रयस्वभाववेत्ता तथा हासौ सुश्रमण इति समाख्यातः किञ्च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/23660416e854618f5ee17f2ab14a71596236d03c6591cf30036c1c2810bf571f.jpg)
Page Navigation
1 ... 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468