Book Title: Agam Sutra Satik 01 Aachar AngSutra 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 450
________________ श्रुतस्कन्धः - २, चूडा-४ ४४७ मू. (५५०) जमाहु ओहं सलिलं अपारयं, महासमुदं व भुयाहि दुत्तरं। अहे यणं परिजाणाहि पंडिए, से हु मुनी अंतकडेत्ति वुच्चई। वृ. 'य' संसारं समुद्रमिव भुजाभ्यांदुस्तरमाहुस्तीर्थकृतोगणधरादयो वा, किम्भूतम् ? - ओघरूपं, तत्र द्रव्यौघः सलिलप्रवेशो भावौघ आम्रवद्वाराणि, तथा मिथ्यात्वाद्यपारसलिलम्, इत्यनेनास्य दुस्तरत्वे कारणमुक्तम्, अथैनं संसारसमुद्रमेवंभूतं ज्ञपरिज्ञया सम्यग् जानीहि प्रत्याख्यानपरिक्षयातुपरिहर पण्डितः' सदसद्विवेकज्ञः, सच मुनिरेवंभूतः कर्मणोऽन्तकृदुच्यते अपिचमू. (५५१) जहा हि बद्धं इह मानवेहिं, जहा य तेसिं तु विमुक्ख आहिए। अहातहा बन्धविमुख जे विऊ, से हमनी अंतकडेत्ति बच्चई। वृ. 'यथा' येन प्रकारेण मिथ्यात्वादिना 'बद्धं' कर्म प्रकृतिस्थित्यादिनाऽऽत्मसात्कृतम् 'इह' अस्मिन् संसारे 'मानवैः' मनुष्यैरिति तथा यथा च सम्यग्दर्शनादिना तेषां कर्मणां विमोक्ष आख्यातः इत्येवं याथातथ्येन बन्धविमोक्षयोर्यः सम्यग्वेत्तास मुनि कर्मणोऽन्तकृदुच्यते ।। किञ्च-- मू. (५५२) इममि लोए परए य दोसुवि, न विजई बंधन जस्स किंचिवि। से हु निरालंबणमप्पइट्टिए, कलंकलीभावपहं विमुच्चइ ।। वृ.अस्मिन् लोके परत्र च द्वयोरपि लोकयोर्न यस्य बन्धनं किञ्चनास्ति सः “निरालम्बनः' ऐहिकामुष्मिकाशंसारहितः 'अप्रतिष्ठितः' न क्वचिप्रतिबद्धोऽशरीरी वा स एवंभूतः 'कलंकलीभावात् संसारगर्भादिपर्यटनाद्विमुच्यते।ब्रवीमीति पूर्ववत् । चूडा-४ समाप्ताः श्रुतस्कन्धः-२ समासः उक्तोऽनुगमः, साम्प्रतं नयाः, तेच ज्ञानक्रियनययोरवतरन्ति, तत्र ज्ञाननयः प्राह-यथा ज्ञानमेवैहिकामुष्पिकार्थावाप्तये, तदुक्तम् - ॥१॥ नायम्मि गिण्हिअव्वे अगिहिअव्वंमि चेव अत्थंमि। जइअव्वमेव इइ जो उवएसो सो नओ नाम ।। यतितव्यमिति ज्ञान यत्नो विधेय इति य उपदेशः स नयो नामेति-स ज्ञाननयो नामेत्यर्थ किर्यानयस्त्विदमाह - ॥१॥ क्रियैव फलदा पुंसां, न ज्ञानं फलदं मतम् । यतः स्त्रीभक्ष्यभोगज्ञो, न ज्ञानात्सुखितो भवेत् ॥ ॥१॥“शास्त्राण्यधीत्यापि भवन्ति मूर्खा, यस्तु क्रियावान् पुरुषः स विद्वान् । संचिन्त्यतामौषधमातुरं हि, किं ज्ञानमात्रेण करोत्यरोगम् ? ॥ — तथा-नायमित्यादि, ज्ञातयोरपि ग्राह्यग्राहकयोरत्थयोस्तथाऽपि यतितव्यमेवेति क्रियैवाभ्यसनीयेति, इति यो नयः स क्रियानयो नामेति, एवं प्रत्येकमभिसन्धाय परमार्थोऽयं निरूप्यते- 'ज्ञानक्रियाभ्यांमोक्ष' इति, तथा चागमः-- ॥१॥ “सव्वेसिपि नयाणं बहुविहवत्तव्य निसामित्ता। तं सव्वनयविसुद्धं जं चरणगुणढिओ साहू ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468