Book Title: Agam Sutra Satik 01 Aachar AngSutra 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 449
________________ ४४६ आचाराङ्ग सूत्रम् २/४/-/-/५४५ मू. (५४५) विऊ नए धम्मपयं अनुत्तरं, विणीयतण्हस्स मुणिस्स झायओ। समाहियस्सऽग्गिसिहा व तेयसा, तवो य पन्ना य जसो य वड्ढइ ।। वृ. 'विद्वान्' कालज्ञः 'नतः' प्रणतः प्रह्वः, किं तत ? - 'धर्मपदं' क्षान्त्यादिकं, किंभूतम् ?-'अनुत्तरं' प्रधानमित्यर्थ,तस्य चैवंभूतस्य मुनेर्विगततृष्णस्य ध्यायतो धर्मध्यानं 'समाहितस्य उपयुक्तस्याग्निशिखावत्तेजसा ज्वलतस्तपः प्रज्ञा यशश्च वर्द्धत इति तथा-- मू. (५४६) दिसोदिसंऽनंतजिणेण ताइणा, महव्वया खेमपया पवेइया । महागुरू निस्सयरा उईरिया, तमेव तेउत्तिदिसं पगासगा। वृ. "दिशोदिश मिति सर्वास्वप्येकेन्द्रियादिषु भावदिक्षु क्षेमपदानि रक्षणस्थानानि 'प्रवेदितानि' प्ररूपितानि, अनन्तश्चासौ ज्ञानात्मतया नित्यतया वा जिनश्च-रागद्वेषजयनादनन्तजिनस्तेन, किंभूतानि व्रतानि ?-'महागुरूणि' कापुरुषैर्वहत्वात् 'निस्वकराणि' स्वकर्मानादिसम्बन्धात्तदपनयनसमर्थानि निस्वकराणि 'उदीरितानि' आविष्कृतानि तेजस इव तमोऽपनयनात्रिदिशंप्रकाशकानि, यथा तेजसतमोऽपनीयोर्ध्वाधस्तिर्यप्रकाशते एवं तान्यपि कर्मतमोऽपनय-नहेतुत्वात्रिदिशं प्रकाशकानीति । मूलगुणानन्तरमुत्तरगुणाभिधित्सयाऽऽहमू. (५४७) सिएहिं भिक्खू असिए परिव्वए, असञ्जमित्वीसु चइज पूयणं । अनिस्सिओ लोगमिणं तहा परं, न मिजई कामगुणेहिं पंडिए॥ वृ.सिताः-बद्धाः कर्मणा गृहपाशेन रागद्वेषादिनिबन्धनेन वेति गृहस्था अन्यतीर्थिका वा तैः 'असितः' अबद्धः-तैः सार्द्ध सङ्गमकुर्वन् भिक्षु परिव्रजेत्' संयमानुष्ठायी भवेत्, तथा स्त्रीषु 'असजन्' सङ्गमकुर्वन् पूजनं त्यजेत्-न सत्काराभिलाषी भवेत्, तथा अनिश्रितः' असंबद्धः 'इहलोके अस्मिन् जन्मनि तथा परलोके स्वर्गादाविति, एवंभूतश्च कामगुणैः' मनोज्ञशब्दादिभिः 'नमीयते' न तोल्यतेन स्वीक्रिय इतियावत् ‘पण्डितः' कटुविपाककामगुणदर्शीति मू. (५४८) तहा विमुक्कस्स परिनचारिणो, धिईमओ दुक्खखमस्स भिक्खुणो। विसुज्झई जंसि मलं पुरेकर्ड, समीरियं रुप्पमलं व जोइणा ।। वृ. ‘तथा' तेनप्रकारेण मूलोत्तरगुणधारित्वेन विमुक्तो-निसङ्गस्तस्य, तथा परिज्ञानं परिज्ञासदसद्विवेकस्तया चरितुं शीलमस्येतिपरिज्ञाचारी-ज्ञानपूर्व क्रियाकारीतस्य, तथाधृति-समाधान संयमे यस्य स धृतिमांस्तस्य, दुःखम्-असातावेदनीयोदयस्तदुदीर्णं सम्यक् क्षमते-सहते, न वैक्लव्यमुपयाति नापि तदुपशमार्थं वैद्यौषधादि मृगयते, तदेवंभूतस्य भिक्षोः पूर्वोपात्तं कर्म 'विशुध्यति' अपगच्छति, किमिव ?- समीरितं' प्रेरितं रूप्यमलमिव 'ज्योतिषा' अग्निनेति साम्प्रतं भुजङ्गत्वगधिकारमधिकृत्याह-- मू. (५४९) से हु परिनासमयंमि वट्टई, निराससे उवरय मेहुणा चरे। . भुयंगमे जुन्नतयं जहा चए, विमुञ्चई से दुहसिज्ज माहणे ॥ __वृ. 'स' एवंभूतो भिक्षुर्मूलोत्तरगुणधारी पिण्डैषणाध्ययनार्थकरणोद्युक्तः परिज्ञासमये वर्तते,तथा 'निराशंसः' ऐहिकामुष्पिकाशंसारहितः, तथा मैथुनादुपरतः,अस्यचोपलक्षणत्वादपरमहाव्रतधारीच, तदेवंभूतोभिक्षुर्यथा सर्प कञ्चुकंमुक्त्वा निर्मलीभवतिएवं मुनिरपि 'दुःखशय्यातः' नरकादिभवाद्विमुच्यत इति । समुद्राधिकारमधिकृत्याह Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468