Book Title: Agam Sutra Satik 01 Aachar AngSutra 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 436
________________ श्रुतस्कन्धः - २, चूडा-३, उपोद्घात: ४३३ कम्मं खवेइ" इत्यादि, तथैमिश्च कारणैर्ज्ञानमभ्यसनीयं तद्यथा - ज्ञानसङ्ग्रहार्थं निर्जरार्थम् अव्यवच्छित्त्यर्थं स्वाध्यायार्थमित्यादि, तथा ज्ञानभावनया नित्यं गुरुकुलवासो भवति, तथा चोक्तम् - ॥१॥ नाणस्स होइ भागी थिरयरओ दंसणे चरिते य । धन्ना आवकहाए गुरुकुलवासं न मुञ्चन्ति ॥ इत्यादिका ज्ञानविषया भावना भवतीति ॥ चारित्रभावनामधिकृत्याहसाहुमहिंसाधम्भो सञ्चमदत्तविरई य बंभं च । नि. [३४१ ] नि. [३४२ ] ↑ साहु परिग्गहविरई साहु तवो बारसंगो य ।। वेरग्गमप्पमाओ एगत्ता ( ग्गे) भावणा य परिसंगं । इचरणमणुगयाओ भणिया इत्तो तवो वुच्छं ॥ साधु-शोभनोऽहिंसादिलक्षणो धर्म इति प्रथमव्रतभावना, तथा सत्यमस्मिन्नेवार्हते प्रवचने साधु - शोभनं नान्यत्रेतिद्वितीयव्रतस्य तथाऽदत्तविरतिश्चात्रैव साध्वीति तृतीयस्य, एवं ब्रह्मचर्यमप्यत्रैव नवगुप्तिगुप्तं धार्यत इति, तथा परिग्रहविरतिश्चैव साध्वीति, एवं द्वादशाङ्गं तप इहैव शोभनं नान्यत्रेति । तथा वैराग्यभावना सांसारिकसुखजुगुप्सारूपा, एवमप्रमादभावनामद्यादिप्रमादानां कर्मबन्धोपादानरूपाणामनासेवनरूपा, तथैकाग्रभावना - 119 11 एक्को मे सासओ अप्पा, नाणदंसणसंजुओ । सेसा मे बाहिरा भावा, सव्वे संजोगलक्खणा || इत्यादिका भावनाः 'चरणमुपगताः ' चरणाश्रिताः, इत उर्ध्व तपोभावनां 'वक्ष्ये' अभिधास्य इति ॥ नि. [ ३४३ ] किह मे हविजऽवंझो दिवसो ? किं वा पहू तवं काउं । को इह दव्वे जोगो खित्ते काले समयभावे ॥ 'कथं ' केन निर्विकृत्यादिना तपसा मम दिवसोऽवन्ध्यो भवेत् ? कतरद्वा तपोऽहं विधातुं 'प्रभुः शक्तः ?, तख कतरत्तपः कस्मिन् द्रव्यादौ मम निर्वहति ? इति भावनीयं, तत्र द्रव्ये उत्सर्गतो वल्लचणकादिके क्षेत्रे स्निग्धरूक्षादौ काले शीतोष्णादौ भावेऽग्लानोऽहमेवंभूतं तपः कर्त्तुमलम्, इत्येवं द्रव्यादिकं पर्यालोच्य यथाशक्ति तपो विधेयं “ शक्तितस्त्यागतपसी" इति वचनादिति ॥ किञ्च - नि. [३४४] उच्छाहपालणाए इति तवे संजमे य संघयणे । वेरग्गेऽनिञ्चाई होइ चरिते इहं पगयं ॥ तथाऽनशनादिके तपस्यनिगूहितबलवीर्येणोत्साहः कर्त्तव्यः, गृहीतस्य च प्रतिपालनं कर्त्तव्यमिति, उक्तञ्च - 119 It ॥२॥ “तित्थयरो चउनाणी सुरमहिओ सिज्झिअव्वयधुवम्मि | अणिहि अबलविरिओ सव्वत्थामेसु उज्जमइ ॥ किं पुण अव सेसेहिं दुक्खक्खयकारणा सुविहिएहिं । होइ न उज्जमिअव्वं सपञ्चवायंमि माणुस्से ? || |128 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468