Book Title: Agam Sutra Satik 01 Aachar AngSutra 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 434
________________ श्रुतस्कन्धः - २, चूडा-३, उपोद्घात : ४३१ दिभिर्द्रव्यैस्तिलादिषुद्रव्येषुयावासनासा द्रव्यभावनेति, तथाशीतेन भावितःशीतसहिष्णुरुष्णेन वाउष्णसहिष्णुर्भवतीति, आदिग्रहणाद्वयायामक्षुण्णदेहो व्यायामसहिष्णुरित्याद्यन्येनापिद्रव्येण द्रव्यस्यया भावनासा द्रव्यभावनेति, भावेतु-भावविषया प्रशस्ताऽप्रशस्तभेदेनद्विरूपाभावनेति ॥तत्राप्रशस्तां भावभावनामधिकृत्याहनि. [३३१] पाणिवहमुसावाए अदत्तमेहुणपरिग्गहे चेव । कोहे माणे माया लोभे य हवंति अपसत्था ।। वृ.प्राणिवधाद्यकार्येषुप्रथमंप्रवर्तमानः साशःप्रवर्ततेपश्चात्पौनःपुन्यकरणतया निशः प्रवर्तते, तदुक्तम् - ॥१॥ "करोत्यादौ तावत्सघृणहृदयः किञ्चिदशुभं, द्वितीयं सापेक्षो विमृशति च कार्यं च कुरुते। तृतीयं निशङ्को विगतघृणमन्याकुरुते, ततः पापाभ्यासात्सततमशुभेषु प्ररमते ।। प्रशस्तभावनामाहनि. [३३२] दंसपनाणचरित्ते तववरग्गेय होइ उ पसत्था। जाय जहा ता य तहा लक्खण वुच्छंसलक्खणओ।। वृ.दर्शनज्ञानचारित्रतपोवैराग्यादिषुयायथाचप्रशस्तभावना भवतितांप्रत्येकंलक्षणतो वक्ष्य इति ।। दर्शनभावनार्थमाहनि. [३३३] तित्थगराण भगवओपवयणपावयणिअइसइड्ढीणं । अभिगमणनमणदरिसणकित्तणसंपूअणाथुणणा॥ वृ. तीर्थकृतां भगवतां प्रवचनस्य-द्वादशाङ्गस्य गणिपिटकस्य, तथा प्रावचनिनाम्आचार्यादीनांयुगप्रधानानां, तथाऽतिशयिनामृद्धिमतां-केवलिमनःपर्यायावधिमच्चतुर्दशपूर्वविदां तथा-आमर्पोषध्यादिप्राप्तऋद्धीनांयदभिगमनंगत्वाच दर्शनंतथागुणोत्कीर्तनसंपूजनंगन्धादिना स्तोत्रैः स्तवनमित्यादिका दर्शनभावना, अनया हि दर्शनभावनयाऽनवरतं भाव्यमानया दर्शनशुद्धिर्भवतीति ।। किञ्चनि. [३३४] जम्माभिसेयनक्खमणचरणनाणुप्पयाय निव्वाणे। दियलोअभवणमंदरनंदीसरभोमनगरेसुं॥ नि. [३३५] अट्ठावयमुजिते गयग्गपयए य धम्मचक्के य । पासरहाक्त्तनगंचमरुप्पायं च वंदामि ।। वृ.तीर्थकृतांजन्मभूमिषुतथानिष्कमणचरणज्ञानोत्पत्तिनिर्वाणभूमिषुतथादेवलोकभवनेषु मन्दरेषुतथा नन्दीश्वरद्वीपादौ भौमेषुच-पातालभवनेषुयानिशाश्वतानिचैत्यानितानिचन्देऽहमिति द्वितीयगाथायामन्ते क्रियेति, एवमष्टापदे, तथा श्रीमदुजयन्तगिरी 'गजाग्रपदे' दशार्णकूटवर्तिनि तथा तक्षशिलायां धर्मचक्रे तथा अहिच्छत्रायां पार्श्वनाथस्य धरणेन्द्रमहिमास्थाने। एवं रथावर्ते पर्वते वैरस्वामिना यत्र पादपोपगमनं कृतं यत्र च श्रीमद्वर्द्धमानमाश्रित्य चमरेन्द्रेणोत्पतनंकृतम्, एतेषुच स्थानेषुयथासम्भवमभिगमनवन्दनपूजनोत्कीर्तनादिकाः क्रियाः कुर्वतो दर्शनशुद्धिर्भवतीति । किञ्च Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468