________________
३९६
आचाराङ्ग सूत्रम् २/१/४/१/४६६
अणुवी निट्टाभासी समियाए संजए भासं भासिना, तंजहा- एगवयणं १ दुवयणं २ बहुव० ३ इत्थि० ४ पुरि० ५ नपुंसगवयणं ६ अज्झत्थव० ७ उवणीयवयणं ८ अवणीयवयणं ९ उवणीय अवणीयव० १० अवणीयउवणीयव० ११ तीयव० १२ पडुप्पन्नव०.१३ अणागयव० १४ पञ्चक्खवणं १५ परुक्खव० १६, से एगवयणं वईस्सामीति एगवयणं वइज्जा जाव परुक्खवयणं वइस्सामीति परुक्खवयणं वइज्जा, इत्थी वेस पुरिसो वेस नपुंसगं वेस एवं वा चेयं अनं वा चेयं अणुवीs निद्वाभासी समियाए संजए भासं भासिज्जा, इञ्चेयाइं आययणाइं उवातिकम्प ॥ अह भिक्खू जाणिजा चत्तारि भासज्जायाई, तंजहा -
सच्चमेगं पढमं भासज्जायं १ बीयं मोसं २ तईयं सच्चामोसं ३ जं नेव सच्चं नेव मोसं नेव सद्यामसं असच्चामोसं नाम तं चउत्यं भासजायं ४ || से बेमि जे अईया जे य पडुप्पन्ना जे अणागया अरहंता भगवंतो सव्वे ते एयाणि चेव चत्तारि भासज्जा याइं भासिंसु वा भासंति वा भासिस्संति वा पत्रविंसुवा ३, सव्वाइंच णं एयाई अचित्ताणि वण्णमंताणि गंधमंताणि रसमंताणि फासमंताणि चओवचइयाई, विप्परिणामधम्माइं भवतीति अक्खायाई ॥
वृ. स भावभिक्षु 'इमान्' इत्यन्तःकरणनिष्पन्नान् इदमः प्रत्यक्षासन्नवाचित्वात्समनन्तरं वक्ष्यमाणान्, वाच्याचारावागाचाराः वाग्व्यापारास्तान् श्रुत्वा, तथा 'निशम्य' ज्ञात्वा भाषासमित्या भाषां भाषेतोत्तरेण सम्बन्ध इति । तवयाधगूभूता भाषा न भाषितव्येति तत्तावद्दर्शयति ।
‘इमान्’ वक्ष्यमाणान् ‘अनाचासन्' साधूनामभाषणयोग्यान् पूर्वसाधुभिरनाचीर्णपूर्वान् साधुर्जानीयात्, तद्यथा-ये केचन क्रोधाद्वा वाचं 'विरंजन्ति ' विविधं व्यापारयन्ति-भाषन्ते यथोत्तमातिरहं हीनस्त्वमित्यादि तथा मायया यथा ग्लानोऽहमपरसन्देशकं वा सावद्यकं केनचिदुपायेन कथयित्वा मिथ्यादुष्कृतं करोति सहसा ममैतदायातमिति तथा लोभेनाहमनेनोक्तेनातः किञ्चल्लस्य इति तथा कस्यचिद्दोषं जानानास्तद्दोषोद्घटनेन परुषं वदन्ति अजानाना वा, सर्वं चैतकोधादिवचनं सहावद्येन पापेन गर्ह्येण वा वर्त्तत इति सावद्यं तद्वर्जयेत् विवेकमादाय, विवेकिना भूत्वा सावद्यं वचनं वर्जनीयमित्यर्थ, तथा केनचित्सार्द्धंसाधुना जल्पता नैव सावधारणं वचो वक्तव्यं यथा
-
'ध्रुवमेतत्' निश्चितं वृष्ट्यादिकं भविष्यतीत्येवं जानीयाद् अध्रुवं वा जानीयादिति । तथा कथञ्चित्साधुं भिक्षार्थं प्रविष्टं ज्ञातिकुलं वा गतं चिरयन्तमुद्दिश्यापरे साधव एवं ब्रवीरन् यथाभुञ्जमहे वयं स तत्राशनादिकं लब्धैव समागमिष्यति, यदिवा ध्रियते तदर्थं किञ्चित् नैवासी तस्माल्लब्धलाभः समागमिष्यति, एवं तत्रैव भुक्त्वाऽभुक्त्वा वा समागमिष्यतीति सावधारणं न वक्तव्यम्, अथ चैवंभूतां सावधारणां वाचं न ब्रूयाद् यथाऽऽगतः कश्चिद्राजादिन वा समागतः तथाऽऽगच्छति न वा समागच्छति एवं समागमिष्यति न वेति, एवमत्र पत्तनमठादावपि भूतादिकालत्रयं योज्यं, यमर्थं सम्यग् न जानीयात्तदेवमेवैतदिति न ब्रूयादिति भावार्थ, सामान्येन सर्वत्रगः साधेरयमुपदेशो, यथा
—
'अनुविचिन्त्य' विचार्य सम्यग्निश्चित्यातिशयेन श्रुतोपदेशेन वा प्रयोजने सति 'निष्ठाभाषी' सावधारणभाषी सन् 'समित्या' भाषासमित्या 'समतया वा' रागद्वेषाकरणलक्षणया षोडशवचनविधिज्ञो भाषां भाषेत । यादृग्भूता च भाषा भाषितव्या तां षोडशवचनविधिगतां
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org