Book Title: Agam Sutra Satik 01 Aachar AngSutra 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 416
________________ श्रुतस्कन्धः-२, चूडा-१, अध्ययनं ७, उद्देशक: ४१३ वृ, द्रव्यावग्रहः क्षेत्रावग्रहः कालावग्रहो भावावग्रहश्चेत्येवं चतुर्विधोऽवग्रहः, यदिवा सामान्येन पञ्चविधोऽवग्रहः, तद्यथा-देवेन्द्रस्यलोकमध्यवर्तिरुचकदक्षिणार्द्धमवग्रहः१, राज्ञश्चक्रवत्यदिभरतादिक्षेत्रं २, गृहपतेाममहत्तरादेामपाटकादिकमवग्रहः ३, तथा सागारिकस्यशय्यातरस्य घनशालादिकं४,साधर्मिकाः-साधचोये मासकल्पेनतत्रावस्थितास्तेषांवसत्यादिरवग्रहः सपादं योजनमिति ५, तदेवं पञ्चविधोऽवग्रहः, वसत्यादिपरिग्रहं च कुर्वता सर्वेऽप्येते यथाऽवसरमनुज्ञाप्या इति ।। साम्प्रतं द्रव्याद्यवग्रहप्रतिपादनायाहनि. [३२०] दबुग्गहो उतिविहो सचित्ताचित्तमीसओ चेव । खित्तुग्गहोऽवि तिविहो दुविहो कालुग्गहो होइ। द्रव्याघवग्रहस्त्रिविधः, शिष्यादेः सचित्तो रजोहरणादेरचित्तः शिष्यरजोहरणादेर्मिश्रः, क्षेत्रावग्रहोऽपि सचित्तादिस्त्रिविध एव, यदिवा ग्रामनगरारण्यभेदादिति, कालावग्रहस्तु ऋतुबद्धवर्षाकालमेदाद्दिधेति ॥ भावावग्रहप्रतिपादनार्थमाहनि. [३२१] मइउग्गहो य गहणुग्गहो य भावुग्गहो दुहा होइ । इंदिय नोइंदिय अस्थवंजणे उग्गहो दसहा ॥ भावाग्रहो द्वेधा, तद्यथा-मत्यवग्रहो ग्रहणावग्रहश्च, तत्र मत्यवग्रहो द्विधा-अर्थावग्रहो व्यञ्जनावग्रहश्य, तत्रावग्रह इन्द्रियनोइन्द्रियमेदात् षोढा, व्यञ्जनावग्रहस्तुचक्षुरिन्द्रियमनोवजश्चतुर्धा, स एष सर्वोऽपि मतिभावावग्रहो दशधेति ।। ग्रहणावग्रहार्थमाह-- नि. [३२२] गहणुग्गहम्मि अपरिगहस्स समणस्स गहणपरिणामो। कहपाडिहारियाऽपाडिहारिए होइ? जइयव्वं । वृ. अपरिग्रहस्य साधोर्यदा पिण्डवसतिवस्त्रपात्रग्रहणपरिणामो भवति तदा स ग्रहणभावावग्रहो भवति, तस्मिंश्च सति 'कथं' केन प्रकारेण मम शुद्धं वसत्यादिकं प्रातिहारिकमप्रातिहारिकं वा भवेदित्येवं यतितव्यमिति, प्रागुक्तश्च देवेन्द्राद्यवग्रहः पञ्चविधोऽप्यस्मिन् ग्रहणावग्रहे द्रष्टव्य इति ।। गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रानुगमे सूत्रमुच्चारणीयं, तच्चेदम् -चूडा-१ अध्ययन-७ उद्देशकः-१:मू. (४८९) समणे भविस्सामि अनगारे अकिंचणे अपुत्ते अपसूपरदत्तभोई पावं कम्मं नो करिस्सामित्ति समुट्ठाए सव्वं भंते ! अदिन्नादाणं पञ्चक्खामि, से अनुपविसित्ता गामं वा जाव रायहाणिं वा नेव सयं अदिन गिव्हिज्जा नेवऽनेहिं अदिनं गिण्हाविजा अदिन्नंगिण्हतेविअन्ने न समणुजाणिजा, जेहिवि सद्धिं संपब्वइए तेसिपि जाइं छत्तगंवा जाव चम्मछेयणगं वा तेसिं पुवामेव उग्गहं अननुनविय अपडिलेहिय २ अपमज्जिय २ नो उग्गिहिज्जा वा परिगिव्हिज्ज वा, ते सिंपुव्वामेव उग्गहं जाइज्जा अनुन्नविय पडिलेहिय पमज्जिय तओ स०. उग्गिहिज वा प०॥ वृ. श्राम्यतीति श्रमणः-तपस्वी यतोऽहमत एवंभूतो भविष्यामीति दर्शयति-'अनगारः' अगा-वृक्षास्तैर्निष्पन्नमगारं तन्न विद्यत इत्यनगारः, त्यक्तगृहपाश इत्यर्थ, तथा अकिञ्चनः' न विद्यते किमप्यस्येत्यकिञ्चनो, निष्परिग्रह इत्यर्थ, तथा 'अपुत्रः स्वजनबन्धुरहितो, निर्मम इत्यर्थ, एवम् अपशुः द्विपदचतुष्पदादिरहितः, यतएवमतः परदत्तभोजी सन्पापंकर्मन करिष्यामीत्येवं समुत्थायैतप्रतिज्ञो भवामीति दर्शयति Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468