Book Title: Agam Sutra Satik 01 Aachar AngSutra 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
आचाराङ्ग सूत्रम् २/१/७/२/४९५
अथापरा सप्तमी - एषैव पूर्वोक्ता, नवरं यथासंस्तृतमेव शिलादिकं ग्रहीष्यामि नेतरदिति, शेषमात्मोत्कर्षवर्जनादि पिण्डैषणावत्रेयमिति ।। किञ्च
४१८
मू. (४९६) सुयं मे आउसंतेणं भगवया एवमक्खायं-इह खलु थेरेहिं भगवंतेहिं पंचविहे उग्गहे प ० तं०- देविंद उग्गहे १ राय उग्गहे २ गाहावइउग्गहे ३ सागारियउग्गहे ४ साहम्मिय०५, एवं खलु तस्स भिक्खुस्स भिक्खुणीए वा सामग्गियं ।
बृ. श्रुतं मयाऽऽ युष्मता भगवतैवमाख्यातम्-इह खलु स्थविरैर्भगवद्भिः पञ्चविधोऽवग्रहो व्याख्यातः, तद्यथा-देवेन्द्रावग्रह इत्यादि सुखोन्नैयं यावदुद्देशकसमाप्तिरिति ॥ चूडा-१ अध्ययनं -७ उद्देशकः - २ समाप्तः
अध्ययनं -७ समाप्तम्
चूडा-9 समाप्त
मुनि दीपरत्न सागरेण संशोधिता सम्पादिता- द्वितीय श्रुतस्कन्धस्य सप्तमं अधययनं एवं प्रथम चुडायाः टीका परिसमाप्त।
चूडा-२- सप्तसप्तिका
वृ. उक्तं सप्तममध्ययनं, तदुक्तौ च प्रथमचूलाऽभिहिता, इदानीं द्वितीया समारभ्यते, अस्याश्चायमभिसम्बन्धः-इहानन्तरचूडायां वसत्यवग्रहः प्रतिपादितः, तत्र च कीदशे स्थाने कायोत्सर्गस्वाध्यायोञ्चारप्रश्रवणादि विधेयमित्येतत्प्रतिपादनाय द्वितीयचूडा, सा च सप्ताध्ययनात्मिकेति नियुक्तिकृद्दर्शयितुमाह
नि. [३२३] सत्तिक्कगाणि इक्क स्सरगाणि पुव्व भणियं तहिं ठाणं ।
उद्धट्ठाणे पगयं निसीहियाए तहिं छकं ।।
'सप्तैककान्येकसराणी'ति सप्ताध्ययनान्युद्देशक रहितानि भवन्तीत्यर्थ, तत्रापि 'पूर्वं प्रथमं स्थानाख्यमध्ययनमभिहितमित्यतस्तद्व्याख्यायते इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमान्तर्गतोऽर्थाधिकारोऽयम् ।
किंभूतं साधुना स्थानमाश्रयितव्यमिति, नामनिष्पन्ने तु निक्षेपे स्थानमिति नाम, तस्य च नामादिश्चतुर्धा निक्षेपः, तत्रेह द्रव्यमाश्रित्योर्द्धस्थानेनाधिकारः, तदाह नियुक्तिकारः - उर्विस्थाने 'प्रकृतं ' प्रस्ताव इति, द्वितीयमध्ययनं निशीथिका, तस्याश्च षट्को निक्षेपः, तं च स्वस्थान एव करिष्यामीति । साम्प्रतं सूत्रमुञ्चारणीयं, तञ्चेदम्
-: चूडा-२ : सप्तैक : १ - "स्थानं" :
मू. (४९७) से भिक्खू वा० अभिकंखेज्जा ठाणं ठाइत्तए, से अनुपविसिज्जा गामं वा जाव रायहाणि वा, से जं पुण ठाणं जाणिज्जा- असंडं जाव मक्कडासंताणयं तं तह० ठाणं अफासुयं अणेस लाभे संते नो प०, एवं सिजागमेण नेयच्वं जाव उदयपसुयाइति ।। इच्चेयाइं आयतणाई उवाइकम्म २ अह भिक्खू इच्छिज्जा चउहिं पडिमाहिं ठाणं ठाइत्तए, तत्थिमा पढमा पडिमाअचित्तं खलु उवसज्जिज्जा अवलंबिज्जा कारण विप्परिकम्माइ सवियारं ठाणं ठाइस्सामि पढमा पडिमा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468