________________
श्रुतस्कन्धः-२, चूडा-१, अध्ययनं ७, उद्देशक:
४१३ वृ, द्रव्यावग्रहः क्षेत्रावग्रहः कालावग्रहो भावावग्रहश्चेत्येवं चतुर्विधोऽवग्रहः, यदिवा सामान्येन पञ्चविधोऽवग्रहः, तद्यथा-देवेन्द्रस्यलोकमध्यवर्तिरुचकदक्षिणार्द्धमवग्रहः१, राज्ञश्चक्रवत्यदिभरतादिक्षेत्रं २, गृहपतेाममहत्तरादेामपाटकादिकमवग्रहः ३, तथा सागारिकस्यशय्यातरस्य घनशालादिकं४,साधर्मिकाः-साधचोये मासकल्पेनतत्रावस्थितास्तेषांवसत्यादिरवग्रहः सपादं योजनमिति ५, तदेवं पञ्चविधोऽवग्रहः, वसत्यादिपरिग्रहं च कुर्वता सर्वेऽप्येते यथाऽवसरमनुज्ञाप्या इति ।। साम्प्रतं द्रव्याद्यवग्रहप्रतिपादनायाहनि. [३२०] दबुग्गहो उतिविहो सचित्ताचित्तमीसओ चेव ।
खित्तुग्गहोऽवि तिविहो दुविहो कालुग्गहो होइ। द्रव्याघवग्रहस्त्रिविधः, शिष्यादेः सचित्तो रजोहरणादेरचित्तः शिष्यरजोहरणादेर्मिश्रः, क्षेत्रावग्रहोऽपि सचित्तादिस्त्रिविध एव, यदिवा ग्रामनगरारण्यभेदादिति, कालावग्रहस्तु ऋतुबद्धवर्षाकालमेदाद्दिधेति ॥ भावावग्रहप्रतिपादनार्थमाहनि. [३२१] मइउग्गहो य गहणुग्गहो य भावुग्गहो दुहा होइ ।
इंदिय नोइंदिय अस्थवंजणे उग्गहो दसहा ॥ भावाग्रहो द्वेधा, तद्यथा-मत्यवग्रहो ग्रहणावग्रहश्च, तत्र मत्यवग्रहो द्विधा-अर्थावग्रहो व्यञ्जनावग्रहश्य, तत्रावग्रह इन्द्रियनोइन्द्रियमेदात् षोढा, व्यञ्जनावग्रहस्तुचक्षुरिन्द्रियमनोवजश्चतुर्धा, स एष सर्वोऽपि मतिभावावग्रहो दशधेति ।। ग्रहणावग्रहार्थमाह-- नि. [३२२] गहणुग्गहम्मि अपरिगहस्स समणस्स गहणपरिणामो।
कहपाडिहारियाऽपाडिहारिए होइ? जइयव्वं । वृ. अपरिग्रहस्य साधोर्यदा पिण्डवसतिवस्त्रपात्रग्रहणपरिणामो भवति तदा स ग्रहणभावावग्रहो भवति, तस्मिंश्च सति 'कथं' केन प्रकारेण मम शुद्धं वसत्यादिकं प्रातिहारिकमप्रातिहारिकं वा भवेदित्येवं यतितव्यमिति, प्रागुक्तश्च देवेन्द्राद्यवग्रहः पञ्चविधोऽप्यस्मिन् ग्रहणावग्रहे द्रष्टव्य इति ।। गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रानुगमे सूत्रमुच्चारणीयं, तच्चेदम्
-चूडा-१ अध्ययन-७ उद्देशकः-१:मू. (४८९) समणे भविस्सामि अनगारे अकिंचणे अपुत्ते अपसूपरदत्तभोई पावं कम्मं नो करिस्सामित्ति समुट्ठाए सव्वं भंते ! अदिन्नादाणं पञ्चक्खामि, से अनुपविसित्ता गामं वा जाव रायहाणिं वा नेव सयं अदिन गिव्हिज्जा नेवऽनेहिं अदिनं गिण्हाविजा अदिन्नंगिण्हतेविअन्ने न समणुजाणिजा, जेहिवि सद्धिं संपब्वइए तेसिपि जाइं छत्तगंवा जाव चम्मछेयणगं वा तेसिं पुवामेव उग्गहं अननुनविय अपडिलेहिय २ अपमज्जिय २ नो उग्गिहिज्जा वा परिगिव्हिज्ज वा, ते सिंपुव्वामेव उग्गहं जाइज्जा अनुन्नविय पडिलेहिय पमज्जिय तओ स०. उग्गिहिज वा प०॥
वृ. श्राम्यतीति श्रमणः-तपस्वी यतोऽहमत एवंभूतो भविष्यामीति दर्शयति-'अनगारः' अगा-वृक्षास्तैर्निष्पन्नमगारं तन्न विद्यत इत्यनगारः, त्यक्तगृहपाश इत्यर्थ, तथा अकिञ्चनः' न विद्यते किमप्यस्येत्यकिञ्चनो, निष्परिग्रह इत्यर्थ, तथा 'अपुत्रः स्वजनबन्धुरहितो, निर्मम इत्यर्थ, एवम् अपशुः द्विपदचतुष्पदादिरहितः, यतएवमतः परदत्तभोजी सन्पापंकर्मन करिष्यामीत्येवं समुत्थायैतप्रतिज्ञो भवामीति दर्शयति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org