Book Title: Agam Sutra Satik 01 Aachar AngSutra 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
श्रुतस्कन्धः - २, चूडा-१, अध्ययनं - ४, उद्देशक:१
३९७ दर्शयति-'तद्यथे'त्ययमुपंप्रदर्शनार्थः, एकवचनं वृक्षः १,द्विचनं वृक्षौ २, बहुर्वचनं वृक्षा इति ३, स्त्रीवचनं वीणा कन्या इत्यादि४,पुंवचनं घटः पट इत्यादि ५, नपुंसकवचनं पीठंदेवकुलमित्यादि ६, अध्यात्मवचनम्, आत्मन्यधि अध्यात्म-हृदयगतं तत्परिहारेणान्यद्भणिष्यतस्तदेव सहसा पतितम् ७, 'उपनीतवचनं' प्रशंसावचनं यथा रूपवती स्त्री ८, तद्विपर्ययेणापनीतवचनं पथेयं रूपहीनेति ९, 'उपनीतापनीतवचनं' कश्चिद् गुणः प्रशस्य- कश्चिनिन्द्यो, यथा-रूपवतीयं स्त्री किन्त्वसद्ववृत्तेति १०, 'अपनीतोपनीतवचनम्' अरूपवती स्त्री किन्तु सद्वृत्तेति ११, 'अतीतवचनं' कृतवान् १२ 'वर्तमानवचनं' करोति १३ 'अनागतवचनं' करिष्यति १४ 'प्रत्यक्षवचनम्' एष देवदत्तः १५, 'परोक्षवचनं स देवदत्तः १६, इत्येतानि षोडश वचनानि।
____ अमीषां स भिक्षुरेकार्थविवक्षायामेकवचनमेव ब्रूयाद् यावत्परोक्षवचनविवक्षायां परोक्षवचनमेव ब्रूयादिति । तथा स्त्र्यादिके दृष्टे सति स्त्र्येवैषा पुरुषो वा नपुंसकं वा, एवमेवैतदन्यद्वैतत्, एवम् ‘अनुविचिन्त्य' निश्चित्य निष्ठाभाषी सन् समित्या समतया संयत एव भाषां भाषेत, तथा 'इत्येतानि' पूर्वोक्तानि भाषागतानि वक्ष्यमाणानि वा आयतनानि दोषस्थानानि 'उपातिक्रम्य' अतिलङ्घय भाषांभाषेत । अथ स भिक्षुर्जानीयात् ‘चत्वारिभाषाजातानि' चतम्रो भाषाः, तद्यथा-सत्यमेकं प्रथमं भाषाजातं यथार्थम्-अवितथं, तद्यथागौगौरेवाश्वोऽश्व एवेति १, एतद्विपरीता तु मृषा द्वितीया, यथा गौरश्वोऽश्वो गौरिति २, तृतीया भाषा सत्यामृषेति, यत्र किञ्चित्सत्यं किञ्चिन्मृषेति, यथाऽश्वेन यान्त देवदत्तमुष्ट्रेण यातीत्यमिदधाति ३, चतुर्थी तुभाषा योच्यमाना नसत्या नापि मृषा नापि सत्यामृषा आमन्त्रणाज्ञापनादिका साऽत्रासत्याऽमृषेति ४
स्वमनीषिकापरिहार्थमाहरासोऽहं यदेतद्ब्रवीमि तत्सर्वैरेव तीर्थकृद्भिरतीतानागतवर्तमानैर्भाषितं भाष्यते भाषिष्यते च, अपि चैतानि-सर्वाण्यप्येतानि भाषाद्रव्याण्यचित्तानि च वर्णगन्धरसस्पर्शवन्ति चयोपचयिकानि विविधपरिणामधर्माणि भवन्तीति, एवमाख्यातं तीर्थकृभिरिति, अत्रच वर्णादिमत्त्वाविष्करणेन शब्दस्य मूर्तत्वमावेदितं, न ह्यमूर्तस्याकाशादेवर्णादयः संभवन्ति तथा चयोपचयधर्माणीत्यनेन तु शब्दस्यानित्यत्वमाविष्कृतं, विचित्रपरिणामत्वाच्छब्दद्रव्याणामिति ।। साम्प्रतं शब्दस्य कृतकत्वाविष्करणायाह
मू. (४६७) से भिक्खू वा० से जंपुण जाणिज्जा पुट्विं भासा अभासा भासिजमाणीभासा भासा भासासमयवीइक्वंता च णं भासिया भासा अभासा ।।
सेभिक्खू वा०से जंपुण जाणिज्जाजायभासा सञ्चा१जायभासा मोसार जायभासा सञ्चामोसा २ जा य भासा असञ्चाऽमोसा ४, तहप्पगारं भासं सावजं सकिरियं कक्कसं, कड्यं निट्ठरंफरुसंअण्हयकरिछेयणकरि भेयणकरिंपरियावणकरिंउद्दवणकरि भूओवघाइयंअभिकंख नो भासिज्जा ।
से भिक्खू वा भिक्खुणी वा से जं पुण जाणिज्जा, जा य मासा सञ्चा सुहमा जा य भासा असश्चामोसा तहप्पगारं भासं असावजं जाव अभूओवघाइयं अभिकंख भासं भासिञ्जा।
वृ.सभिक्षुरेवंभूतं शब्दं जानीयात्, तद्यथा-भाषाद्रव्यवर्गणानांवाग्योगनिस्सरणात् 'पूर्वं' प्रागभाषा ‘भाष्यमाणैव' वामयोगेन निसृज्यमानैव भाषा भाषाद्रव्याणि भाषा भवति, तदनेन ताल्वोष्ठादिव्यापारेण प्रागसतः शब्दस्य निष्पादनात्स्फटमेव कृतकत्वमावेदितं, मृत्पिण्डे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468