Book Title: Agam Sutra Satik 01 Aachar AngSutra 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 387
________________ आचाराङ्ग सूत्रम् २/१/३/-/-[नि. ३०९] वायुपुरुषादेर्द्रव्यस्य यद्गमनं सा सचित्तद्रव्येर्या, एवं परमाण्वादिद्रव्यस्य गमनमचित्तद्रव्येर्या, तथा मिश्रद्रव्येर्या रथादिगमनमिति, क्षेत्रेर्या यस्मिन् क्षेत्रे गमनं क्रियते ईर्ष्या वा वर्ण्यते, एवं कार्याऽपि द्रष्टव्येति । भांवेर्याप्रतिपादनायाह नि. [ ३१० ] भावइरियाओ दुविहा चरणरिया चैव संजमरिया य । सणस कहंगमणं निद्दोसं होइ परिसुद्धं ॥ वृ. भावविषयेर्या द्विधा चरणेर्या संयमेर्या च तत्र संयमेर्या सप्तदशविधसंयमानुष्ठानं, यदिवाऽसङख्येयेषु संयमस्थानेष्वेकस्मात्संयमस्थानादपरं संयमस्थानं गच्छतः संयमेर्या भवति, चरणेर्या तु 'अभ्रवभ्रमभ्र चर गत्यर्था': चरतेर्भावि ल्युट्चरणं तद्रूपेर्याचरणेर्या, चरणं गतिर्गमनमित्यर्थ, तच्च श्रमणस्य 'कथं' केन प्रकारेण भावरूप गमनं निर्दोषंभवति ? इति । आहआलंबणे य काले मग्गे जयणाइ चेव परिसुद्धं । नि. [३११] ३८४ भंगेहिं सोलसविहं जं परिसुद्धं पसत्थं तु ॥ वृ. ‘आलम्बनं’ प्रवचनसङ्खगच्छाचार्यादिप्रयोजनं 'कालः' साधूनां विहरणयोग्योऽवसरः 'मार्ग' जनैः पद्भ्यां क्षुण्णः पन्थाः 'यतना' उपयुक्तस्य युगमात्रदृष्टित्वं तदेवमालम्बवकालमार्गयतनापदैरेकैकपदव्यभिचाराद् ये भङ्गास्तैः षोडशविधं गमनं भवति ॥ तस्य च यत्परिशुद्धं तदेव प्रशस्तं भवतीति दर्शयितुमाह नि. [३१२] चउकारणपरिसुद्धं अहवावि (हु) होज कारणञ्जाए। आलंबणजयणाए काले मग्गे य जइयव्वं ॥ वृ. चतुर्भि कारणैः साधोर्गमनं परिशुद्धं भवति, तद्यथा-आलम्बनेन दिवा मार्गेण यतनया गच्छत इति, अथवा कालेऽपि ग्लानाद्यालम्बनेन यतनया गच्छ्रतः शुद्धमेव गमनं भवति, एवंभूते चमार्गे साधुना यतितव्यमिति । उक्तो नामनिष्पन्नो निक्षेपः, साम्प्रतमुद्देशार्थाधिकारमधिकृत्याहनि. [३१३] सव्वेवि ईरियविसोहिकारगा तहवि अत्थि उ विसेसो । उद्देसे उसे वुच्छामि जहक्क मं किंचि ॥ वृ. 'सर्वेऽपि ' त्रयोऽपि यद्यपीर्याविशुद्धिकारकास्तथाऽपि प्रत्युद्देशकमस्ति विशेषः, तं च यथाक्रमं किञ्चिद्वक्ष्याम इति ॥ यथाप्रतिज्ञातमाह नि. [३१४] पढमे उवागमण निग्गमो य अद्धाण नावजयणा य । बिइए आरूढ छलणं जंघासंतार पुच्छा य ॥ वृ. प्रथमोद्देशके वर्षाकालदावुपागमनं स्थानं तथा निर्गमश्च शरत्कालादौ यथा भवति तदत्र प्रतिपाद्यमध्वनि यतना चेति, द्वितीयोद्देशके नावादावारूढस्यं छलनं प्रक्षेपणं व्यावर्ण्यते, जङ्घासन्तारे च पानीये यतना, तथा नानाप्रकारे च प्रश्ने साधुना यद्विधेयमेतच्च प्रतिपाद्यमिति ।। नि. [३१५] तइयंमि अदायणया अप्पडिबंधो य होइ उवहिंमि । वज्जेयव्वं च सया संसारियरायगिहगमणं ॥ वृ. तृतीयोद्देशके यदि कश्चिदुदकादीनि पृच्छति, तस्य जानताऽप्यदर्शनता विधेयेत्ययमधि कारः, तथोपधावप्रतिबन्धो विधेयः, तदपहरणे च स्वजनराजगृहगमनं च वर्जनीयं, न च • तेषामाख्येयमिति । साम्प्रतं सूत्रानुगमेऽ स्खलितादिगुणोपेतं सूत्रमुच्चारणीयं तचेदम् For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468