________________
आचाराङ्ग सूत्रम् २/१/३/-/-[नि. ३०९] वायुपुरुषादेर्द्रव्यस्य यद्गमनं सा सचित्तद्रव्येर्या, एवं परमाण्वादिद्रव्यस्य गमनमचित्तद्रव्येर्या, तथा मिश्रद्रव्येर्या रथादिगमनमिति, क्षेत्रेर्या यस्मिन् क्षेत्रे गमनं क्रियते ईर्ष्या वा वर्ण्यते, एवं कार्याऽपि द्रष्टव्येति । भांवेर्याप्रतिपादनायाह
नि. [ ३१० ] भावइरियाओ दुविहा चरणरिया चैव संजमरिया य । सणस कहंगमणं निद्दोसं होइ परिसुद्धं ॥
वृ. भावविषयेर्या द्विधा चरणेर्या संयमेर्या च तत्र संयमेर्या सप्तदशविधसंयमानुष्ठानं, यदिवाऽसङख्येयेषु संयमस्थानेष्वेकस्मात्संयमस्थानादपरं संयमस्थानं गच्छतः संयमेर्या भवति, चरणेर्या तु 'अभ्रवभ्रमभ्र चर गत्यर्था': चरतेर्भावि ल्युट्चरणं तद्रूपेर्याचरणेर्या, चरणं गतिर्गमनमित्यर्थ, तच्च श्रमणस्य 'कथं' केन प्रकारेण भावरूप गमनं निर्दोषंभवति ? इति । आहआलंबणे य काले मग्गे जयणाइ चेव परिसुद्धं ।
नि. [३११]
३८४
भंगेहिं सोलसविहं जं परिसुद्धं पसत्थं तु ॥
वृ. ‘आलम्बनं’ प्रवचनसङ्खगच्छाचार्यादिप्रयोजनं 'कालः' साधूनां विहरणयोग्योऽवसरः 'मार्ग' जनैः पद्भ्यां क्षुण्णः पन्थाः 'यतना' उपयुक्तस्य युगमात्रदृष्टित्वं तदेवमालम्बवकालमार्गयतनापदैरेकैकपदव्यभिचाराद् ये भङ्गास्तैः षोडशविधं गमनं भवति ॥ तस्य च यत्परिशुद्धं तदेव प्रशस्तं भवतीति दर्शयितुमाह
नि. [३१२] चउकारणपरिसुद्धं अहवावि (हु) होज कारणञ्जाए। आलंबणजयणाए काले मग्गे य जइयव्वं ॥
वृ. चतुर्भि कारणैः साधोर्गमनं परिशुद्धं भवति, तद्यथा-आलम्बनेन दिवा मार्गेण यतनया गच्छत इति, अथवा कालेऽपि ग्लानाद्यालम्बनेन यतनया गच्छ्रतः शुद्धमेव गमनं भवति, एवंभूते चमार्गे साधुना यतितव्यमिति । उक्तो नामनिष्पन्नो निक्षेपः, साम्प्रतमुद्देशार्थाधिकारमधिकृत्याहनि. [३१३] सव्वेवि ईरियविसोहिकारगा तहवि अत्थि उ विसेसो ।
उद्देसे उसे वुच्छामि जहक्क मं किंचि ॥
वृ. 'सर्वेऽपि ' त्रयोऽपि यद्यपीर्याविशुद्धिकारकास्तथाऽपि प्रत्युद्देशकमस्ति विशेषः, तं च यथाक्रमं किञ्चिद्वक्ष्याम इति ॥ यथाप्रतिज्ञातमाह
नि. [३१४] पढमे उवागमण निग्गमो य अद्धाण नावजयणा य ।
बिइए आरूढ छलणं जंघासंतार पुच्छा य ॥
वृ. प्रथमोद्देशके वर्षाकालदावुपागमनं स्थानं तथा निर्गमश्च शरत्कालादौ यथा भवति तदत्र प्रतिपाद्यमध्वनि यतना चेति, द्वितीयोद्देशके नावादावारूढस्यं छलनं प्रक्षेपणं व्यावर्ण्यते, जङ्घासन्तारे च पानीये यतना, तथा नानाप्रकारे च प्रश्ने साधुना यद्विधेयमेतच्च प्रतिपाद्यमिति ।। नि. [३१५] तइयंमि अदायणया अप्पडिबंधो य होइ उवहिंमि ।
वज्जेयव्वं च सया संसारियरायगिहगमणं ॥
वृ. तृतीयोद्देशके यदि कश्चिदुदकादीनि पृच्छति, तस्य जानताऽप्यदर्शनता विधेयेत्ययमधि कारः, तथोपधावप्रतिबन्धो विधेयः, तदपहरणे च स्वजनराजगृहगमनं च वर्जनीयं, न च • तेषामाख्येयमिति । साम्प्रतं सूत्रानुगमेऽ स्खलितादिगुणोपेतं सूत्रमुच्चारणीयं तचेदम्
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org