________________
श्रुतस्कन्धः - १, अध्ययनं-३, उद्देशक:र
१६९ पर्याप्तकप्रायोग्यं बध्नतो मिथ्यादष्टेर्भवति १, इयमेव पराधातोच्छ्वाससहिता पञ्चविंशतिः, नवरमपर्याप्तकस्थाने पर्याप्तकमेव वाच्यं २, इयमेव चातपोद्योतान्यतरसमन्विता पविशतिः, नवरंबादरप्रत्येके एव वाच्ये ३, तथा देवगतिप्रायोग्यं बध्नतोऽष्टाविंशतिः, तथाहि-देवगतिः १ पञ्चेन्द्रियजातिः २ वैक्रिय ३ तैजस ४ कार्मणानि ५ शरीराणि समचतुरनं ६ अङ्गोपाङ्गं ७ वर्णादिचतुष्टयं ११ आनुपूर्वी १२ अगुरुलघू १३ पघात १४ पराघात १५ उच्छ्वासाः १६ प्रशस्तविहायोगतिः १७ वसं १८ बादरं १९ पर्याप्तकं २० प्रत्येकं २१ स्थिरास्थिरयोरन्यतरत् २२ शुभाशुभयोरन्यतरत् २३सुभगं २४सुस्वरं २५आदेयं२६ यशः कीत्त्ययश-कीरिन्यतरत् २७ निर्माणमिति २८, एषैव तीर्थकरनामसहिता एकोनत्रिंशत्, साम्प्रतं त्रिंशत्
देवगतिः १ पञ्चेन्द्रियजातिः २ वैक्रिया ३ हारका ४ ङ्गोपाङ्ग ६ चतुष्टयं तैजस ७ कार्मणे ८ संस्थानमाद्यं ९ वर्णादिचतुष्कं १३ आनुपूर्वी १४ अगुरुलघू १५ पघातं १६ पराघातं १७ उच्छ्वासं १८ प्रशस्तविहायोगतिः १९ वसं २० बादरं २१ पर्याप्तकं २२ प्रत्येकं २३ स्थिरं २४ शुभं २५ सुभगं २६ सुस्वरं २७ आदेयं २८ यशःकीर्ति २९ निर्माण ३० मिति च बनत एक बन्धस्थानं ६, एषैव त्रिंशत्तीर्थकरनामसहिता एकत्रिंशत् ७, एतेषां च बन्धस्थानानामेकेन्द्रियद्वीन्द्रियत्रीन्द्रियनरकगत्यादिभेदेन बहुविधता कर्मग्रन्थादवसेया, अपूर्वकरणादिगुणस्थानकायेदेवगतिप्रायोग्यबन्धोपरमाद्यश-कीर्तिमेवबनतः एकविधंबन्धस्थानमिति ८, तत ऊर्द्धनाम्नो बन्धाभाव इति । गोत्रस्य सामान्यनैकं बन्धस्थानं-उच्चनीचयोरन्यतरत्, योगपधेनोभयोर्बन्धाभावो विरोधादिति । तदेवं बन्धद्वारेण लेशतो बहुत्वन्येनैकं बन्धस्थानंउच्चनीचयोरन्यतरत्, यौगपद्येनोभयोर्बन्धाभावीविरोधादिति।तदेवंबन्धद्वारेणलेशतो बहुत्मावेदितं कर्मणां, तच्च बहु कर्मप्रकृतं बद्धप्रकटवा, तत्कार्यप्रदर्शनात, खलुशब्दोवाक्यालङ्कारेऽवधारणे वा, बढेव तत्कर्म । यदि नामैवं ततस्तदपनयनार्थं किं कर्तव्यमित्याह
मू. (१२०) सच्चमि धिइं कुब्बहा, एत्थोवरए मेहाची सव्वं पावं कम्मंजोसइ ।
वृ. सम्यो हितः सत्यः-संयमस्तत्र धृतिं कुरुध्वं, सत्यो वा मनीन्द्रागमो यथावस्थितवस्तुस्वरूपाविर्भावनात्, तत्रभगवदाज्ञायां धृतिकुमार्गपरित्यागेनकुरुध्वमिति, किंच-'एत्थोवरए' इत्यादि, 'अत्र' अस्मिन् संयमे भगवद्वचसिवाउपसामीप्येन रतो-व्यवस्थितो 'मेधावी' तत्त्वदर्शी 'सर्वम्' अशेषां पापं' कर्म संसारार्णवपरिभ्रमणहेतुंझोषयति-शोषयति क्षयं नयतीतियावत् । उक्तोऽप्रमादः, तत्प्रत्यनीकस्तु प्रमादः, तेन च कषायादिप्रमादेन प्रमत्त; किंगुणो भवतीत्याह
मू. (१२१) अनेगचित्ते खलु अयं पुरिसे, से केयणं अरिहए पूरिण्णए, से अन्नवहाए अन्नपरियावाए अन्नपरिग्गहाए जणवयवहाए जणवयपरियावाए जणवयपरिग्गहाए।
वृ.अनेकानि चित्तानिकृषिवाणिज्यावलगनादीनियस्यासावनेकचित्तः,खलुरवधारणे, संसारसुखाभिलाष्यनेकचित्त एव भवति, 'अयं पुरुष' इति प्रत्यक्षगोचरीभूतः संसार्यपदिश्यते, अत्र च प्रागुपन्यस्तदधिघटिकया कपिलदरिद्रेण च दृष्टान्तो वाच्य इति। यश्चानेकचित्तो भवतिस किं कुर्यादित्याह-‘से केयणमित्यादि, द्रव्यकेतनं चालिनी परिपूर्णकः समुद्रो वेति भावकेतनं लोभेच्छा, तदसावनेकचित्तः केनाप्यभूतपूर्वं पुरयितुमर्हति, अर्थितया शक्याशक्यविचाराक्षमोऽशक्यानुष्ठानेऽपिप्रवर्त्ततइत्युक्तंभवति, सचलोभेच्छापूरणव्याकुलितमतिः किं कुर्यादित्याह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org