Book Title: Agam Sutra Satik 01 Aachar AngSutra 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 367
________________ ३६४ आचाराङ्ग सूत्रम् २/१/१/११/३९४ वृ. भिक्षामटन्ति भिक्षाटाः भिक्षणशीलाः साधव इत्यर्थ, नामशब्दः सम्भावनायां, वक्ष्यमाणमेषां संभाव्यते, 'एके केचन एवमाडं-साधुसमीपमागत्य वक्ष्यमाणमुक्तवन्तः, तेच साधवः समानावा सम्भोगिका भवेयुः,वाशब्दादसाम्भोगिका वा, तेऽपिच 'वसन्तः' वास्तव्या अन्यतो वा ग्रामादेः समागता भवेयुः, तेषु च कश्चित्साधुः 'ग्लायति' ग्लानिमनुभवति, तत्कृते तान् सम्भोगिकादींस्ते भिक्षाटा मनोज्ञभोजनलाभे सत्येवमाहुरिति सम्बन्धः, से' इति एतन्मनोज्ञमाहारजातं 'हन्दह' गृह्णीत यूयं णम्' इति वाक्यालङ्कारे 'तस्य' ग्लानस्य आहारत' नयत, तस्मै प्रयच्छत इत्यर्थ, ग्लानश्चेन्न भुङ्के ग्राहक एवाभिधीयते । त्वमेव भुङक्ष्वेति, सच भिक्षुर्भिक्षोर्हस्ताद् ग्लानार्थं गृहीत्वाऽऽहारंतत्राध्युपपन्नः सन्नेक एवाहं भोक्ष्य इतिकृत्वा तस्य ग्लानस्य 'पलिउंचिअपलिउंचिय'त्ति मनोज्ञं गोपित्वा गोपित्वा वातादिरोगमुद्दिश्य तथा तस्य आलोकयेत्' दर्शयति यथाऽपथ्योऽयं पिण्ड इति बुद्धिरुत्पद्यते, तद्यथा-अग्रतो ढौकयित्वा वदति-अयं पिण्डो भवदर्थं साधुना दत्तः, किन्त्वयं 'लोए'त्ति रूक्षः, तथा तिक्तः कटुः कषायोऽम्लो मधुरो वेत्यादि दोषदुष्टत्वान्नातः किञ्चिद् ग्लानस्य 'स्वदतीति' उपकारे नवर्तत इत्यर्थ, एवं चमातृस्थानं संस्पृशेत्, न चैतत्कुर्यादिति । यथा च कुर्यात्तद्दर्शयतितथाऽवस्थितमेव ग्लानस्यालोकयेद्यथाऽवस्थितमिति, एतदुक्तं भवति-मातृस्थानपरित्यागेन यथाऽवस्थितमेव ब्रूयादिति, शेषं सुगमम् ॥तथा- . मू. (३९५) भिक्खागा नामेगे एव माहंसु-समाणे वा वसमाणे वा गामाणुगामं दूइज्जमाणे वा मणुन्नं भोयणजायं लभित्ता से य भिक्खू गिलाइ से हंदह णं तस्स आहरह, से य भिक्खू नो भुंजिज्जा आहारिजा, सेणं नो खलु मे अंतराए आहरिस्सामि, इञ्चेयाइं आयतणाइंउवाइक्कम ।। वृ. "भिक्षादाः' साधवो मनोज्ञमाहारं लब्ध्वा समनोज्ञांस्तांश्च वास्तव्यान्प्राघूर्णकान् वा ग्लानमुद्दिश्यैवमूचुः-एतन्मनोज्ञमाहारजातं गृहीत यूयं ग्लानाय नयत, स चेन्न मुङ्कते ततोऽस्मदन्तिकमेव ग्लानाद्यर्थम् ‘आहरेत्' आनयेत्, स चैवमुक्तः सन्नैवं वदेद्-यथाऽन्तरायमन्तरेणाहरिष्यामीति प्रतिज्ञयाऽऽहारमादाय ग्लानान्तिकं गत्वा प्राक्तनान् भक्तादिरूक्षादिदोषानुद्घाट्यग्लानायादत्वा स्वतएव लौल्याद्भुक्त्वा ततस्तस्यसाधोर्निवेदयति __ यथा मम शूलं वैयावृत्त्यकालापर्याप्त्यादिकमन्तरायिकमभूदतोऽहं तद्ग्लानभक्तं गृहीत्वा नायात इत्यादि मातृसंस्थानं संस्पृशेत्, एतदेव दर्शयतिइत्येतानि-पूर्वोक्तान्यायतनानिकर्मोपादानस्थानानि 'उपातिक्रम्य' सम्यक् परिहत्य मातृस्थानपरिहारेण ग्लानाय वा दद्याद्दातृसाधुसमीपं वाऽऽहरेदिति ॥ पिण्डाधिकार एव सप्तपिण्डैषणा अधिकृत्य सूत्रमाह मू. (३९६) अह भिक्खू जाणिज्जा सत्त पिंडेसणाओ सत्त पाणेसणाओ, तत्थ खलु इमा पढमा पिंडेसणा-असंसढे हत्थे असंसट्टे मत्ते, तहप्पगारेण असंसडेण हत्येण वा मत्तेण वा असणं वा ४ सयं वा णं जाइजा परो वा से दिजा फासुयं पडिगाहिज्जा, पढमा पिंडेसणा। अहावरा दुचा पिंडेसणा-संसढे हत्थे संसट्टे मत्ते, तहेव दुचा पिंडेसणा। अहावरातचा पिंडेसणा-इह खलु पाईणं वा ४ संतेगइया सड्ढा भवंति-गाहावई वा जाव कम्मकरी वा, तेसिंचणं अन्नयरेसु विरुवरुवेसु भायणजाएसु उवनिक्खित्तपुव्वे सिया, तंजहाथालंसि वा पिढरंसि वा सरगंसि वा परगंसि वा वरगंसि वा, अह पुणेवं जाणिज्जा-असंसट्टे हत्थे Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468