________________
३६४
आचाराङ्ग सूत्रम् २/१/१/११/३९४
वृ. भिक्षामटन्ति भिक्षाटाः भिक्षणशीलाः साधव इत्यर्थ, नामशब्दः सम्भावनायां, वक्ष्यमाणमेषां संभाव्यते, 'एके केचन एवमाडं-साधुसमीपमागत्य वक्ष्यमाणमुक्तवन्तः, तेच साधवः समानावा सम्भोगिका भवेयुः,वाशब्दादसाम्भोगिका वा, तेऽपिच 'वसन्तः' वास्तव्या अन्यतो वा ग्रामादेः समागता भवेयुः, तेषु च कश्चित्साधुः 'ग्लायति' ग्लानिमनुभवति, तत्कृते तान् सम्भोगिकादींस्ते भिक्षाटा मनोज्ञभोजनलाभे सत्येवमाहुरिति सम्बन्धः, से' इति एतन्मनोज्ञमाहारजातं 'हन्दह' गृह्णीत यूयं णम्' इति वाक्यालङ्कारे 'तस्य' ग्लानस्य आहारत' नयत, तस्मै प्रयच्छत इत्यर्थ, ग्लानश्चेन्न भुङ्के ग्राहक एवाभिधीयते ।
त्वमेव भुङक्ष्वेति, सच भिक्षुर्भिक्षोर्हस्ताद् ग्लानार्थं गृहीत्वाऽऽहारंतत्राध्युपपन्नः सन्नेक एवाहं भोक्ष्य इतिकृत्वा तस्य ग्लानस्य 'पलिउंचिअपलिउंचिय'त्ति मनोज्ञं गोपित्वा गोपित्वा वातादिरोगमुद्दिश्य तथा तस्य आलोकयेत्' दर्शयति यथाऽपथ्योऽयं पिण्ड इति बुद्धिरुत्पद्यते, तद्यथा-अग्रतो ढौकयित्वा वदति-अयं पिण्डो भवदर्थं साधुना दत्तः, किन्त्वयं 'लोए'त्ति रूक्षः, तथा तिक्तः कटुः कषायोऽम्लो मधुरो वेत्यादि दोषदुष्टत्वान्नातः किञ्चिद् ग्लानस्य 'स्वदतीति' उपकारे नवर्तत इत्यर्थ, एवं चमातृस्थानं संस्पृशेत्, न चैतत्कुर्यादिति । यथा च कुर्यात्तद्दर्शयतितथाऽवस्थितमेव ग्लानस्यालोकयेद्यथाऽवस्थितमिति, एतदुक्तं भवति-मातृस्थानपरित्यागेन यथाऽवस्थितमेव ब्रूयादिति, शेषं सुगमम् ॥तथा- .
मू. (३९५) भिक्खागा नामेगे एव माहंसु-समाणे वा वसमाणे वा गामाणुगामं दूइज्जमाणे वा मणुन्नं भोयणजायं लभित्ता से य भिक्खू गिलाइ से हंदह णं तस्स आहरह, से य भिक्खू नो भुंजिज्जा आहारिजा, सेणं नो खलु मे अंतराए आहरिस्सामि, इञ्चेयाइं आयतणाइंउवाइक्कम ।।
वृ. "भिक्षादाः' साधवो मनोज्ञमाहारं लब्ध्वा समनोज्ञांस्तांश्च वास्तव्यान्प्राघूर्णकान् वा ग्लानमुद्दिश्यैवमूचुः-एतन्मनोज्ञमाहारजातं गृहीत यूयं ग्लानाय नयत, स चेन्न मुङ्कते ततोऽस्मदन्तिकमेव ग्लानाद्यर्थम् ‘आहरेत्' आनयेत्, स चैवमुक्तः सन्नैवं वदेद्-यथाऽन्तरायमन्तरेणाहरिष्यामीति प्रतिज्ञयाऽऽहारमादाय ग्लानान्तिकं गत्वा प्राक्तनान् भक्तादिरूक्षादिदोषानुद्घाट्यग्लानायादत्वा स्वतएव लौल्याद्भुक्त्वा ततस्तस्यसाधोर्निवेदयति
__ यथा मम शूलं वैयावृत्त्यकालापर्याप्त्यादिकमन्तरायिकमभूदतोऽहं तद्ग्लानभक्तं गृहीत्वा नायात इत्यादि मातृसंस्थानं संस्पृशेत्, एतदेव दर्शयतिइत्येतानि-पूर्वोक्तान्यायतनानिकर्मोपादानस्थानानि 'उपातिक्रम्य' सम्यक् परिहत्य मातृस्थानपरिहारेण ग्लानाय वा दद्याद्दातृसाधुसमीपं वाऽऽहरेदिति ॥ पिण्डाधिकार एव सप्तपिण्डैषणा अधिकृत्य सूत्रमाह
मू. (३९६) अह भिक्खू जाणिज्जा सत्त पिंडेसणाओ सत्त पाणेसणाओ, तत्थ खलु इमा पढमा पिंडेसणा-असंसढे हत्थे असंसट्टे मत्ते, तहप्पगारेण असंसडेण हत्येण वा मत्तेण वा असणं वा ४ सयं वा णं जाइजा परो वा से दिजा फासुयं पडिगाहिज्जा, पढमा पिंडेसणा।
अहावरा दुचा पिंडेसणा-संसढे हत्थे संसट्टे मत्ते, तहेव दुचा पिंडेसणा।
अहावरातचा पिंडेसणा-इह खलु पाईणं वा ४ संतेगइया सड्ढा भवंति-गाहावई वा जाव कम्मकरी वा, तेसिंचणं अन्नयरेसु विरुवरुवेसु भायणजाएसु उवनिक्खित्तपुव्वे सिया, तंजहाथालंसि वा पिढरंसि वा सरगंसि वा परगंसि वा वरगंसि वा, अह पुणेवं जाणिज्जा-असंसट्टे हत्थे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org