________________
आचाराङ्ग सूत्रम् २/१/१/५/३६१
मू. (३६१) से भिक्खू वा से जं पुण जाणिज्जा गोणं वियालं पडिपहे पेहाए महिसं वियालं पडिपहे पेहाए, एवं मणुस्सं आसं हत्थि सीहं वग्धं विगं दीवियं अच्छं तरच्छं परिसरं सियालं बिरालं सुणयं कोलसुणयं कोकतियं चित्ताचिल्लडयं वियालं पडिपहे पेहाए स परक मे संजयामेव परक्क मेज्जा, नो उज्जुयं गच्छिज्जा। से भिक्खू वा समाणे अंतरा से उवाओ वा खाणुए वा कंटए वा घसी वा भिलगा वा विसमे वा विज्जले वा परियावज्जिज्जा, सइ परक्कमे संजयामेव, नो उज्जुयं गच्छिज्जा ॥
३४६
वृ. समिक्षुर्भिक्षार्थ प्रविष्टः सन् पथ्युपयोगं कुर्यात्, तत्र च यदि पुनरेवं जानीयाद् यथाऽत्र किञ्चिद्गवादिकमास्त इति स तन्मार्ग रून्धानं 'गां' बलीवर्दं 'व्यालं' ध्तं दुष्टमित्यर्थ, पन्थानं प्रति प्रतिपथस्तस्मिन् स्थितं प्रत्युपेक्ष्य, शेषं सुगमं यावत्सति पराक्रमे मार्गान्तरे ऋजुना पथाऽऽत्मवि- राधनासम्भवान्न गच्छेत्, नवरं 'विगं' ति वृकं 'द्वीपिनं' चित्रकम् ' अच्छं' तिऋक्षं 'परिसर' न्ति सरभं 'कोलसुणयं' महासूकरं 'कोकंतियन्ति श्रृ गालाकृतिर्लोमटको रात्रो को को इत्येवं रारटीति, 'चित्ताचिल्लडयं 'ति आरण्यो जीवविशेषस्तमिति ॥ तथा
स भिक्षुर्भिक्षार्थं प्रविष्टः सन्मार्गोपयोगं दद्यात्, तत्रान्तराले यद्येतत्पर्यापद्येत-स्यात्, तद्यथा'अवपातः' गतः स्थाणुर्वा कण्टको वा घसी नाम-स्थल' दधस्तादवतरणं 'मिलुग' त्ति स्फुटितकृष्णभूराजि विषमं निम्नोन्नतं विज्जलं - कर्दमः तत्रात्मसंयमविराघनासम्भवात् 'पराक्रमे' मार्गान्तरे सति ऋजुना पथा न गच्छेदिति ।। तथा
मू. (३६२) से भिक्खू वा (२) गाहावइकुलस्स दुवारबाहं कंटगबुंदियाए परिपिहियं पेहाए तेसिं पुव्वामेव उग्गहं अणणुत्रविय अपडिलेहिय अप्पमजिय नो अवंगुणिजजज वा पविसिज वा निक्खमिज वा, तेसिं पुव्वामेव उग्गहं अणुन्नविय पडिलेहिय पडिलेहिय पमजिय पमज्जिय तओ संजयामेव अवंगुणिज्ज वा पविसेज्ज वा निक्खमेज्ज वा ।।
वृस भिक्षुर्भिक्षार्थं प्रविष्टः सन् गृहपतिकुलस्य 'दुवारबाहं' ति द्वारभागस्तं कण्डकशाखया 'पिहितं' स्थगितं प्रेक्ष्य येषां तद्गृहं तेषामवग्रहं पूर्वमेव 'अननुज्ञाप्य' अयाचित्वा, तथा अप्रत्युपेक्ष्य चक्षुषाऽप्रमृज्य च रजोहरणादिना 'नोऽवंगुणेज्ज' त्ति नैवोदघाटयेद्, उद्घाट्य च न प्रविशेन्नापि निष्क्रामेत्, दोषदर्शनात्, तथाहि गृहपति प्रद्वेषं गच्छेत्, नष्टे च वस्तुनि साधुविषया शङ्कोत्पद्येत, उद्घाटद्वारे चान्यत् पश्वादि प्रविशेदित्येवं च संयमात्मविराधनेति । सति कारणेऽपवादमाह भिक्षुर्येषां तद्गृहं तेषां सम्बन्धिनमवग्रहम् 'अनुज्ञाप्य' याचित्वा प्रत्युपेक्ष्य प्रमृज्य च गृहोद्घाटनादि कुर्यादिति, एतदुक्तं भवति - स्वतो द्वारमुद्घाट्य न प्रवेष्टव्यमेव, यदि पुनर्लानाचार्यादिप्रायोग्यं तत्र लभ्ये वैद्यो वा तत्रास्ते दुर्लभं वा द्रव्यं तत्र भविष्यति अवमौदर्ये वा सत्येभि कारणैरूपस्थितैः स्थगितद्वारि व्यवस्थितः सन शब्दं कुर्यात्, स्वयं वा यथाविध्युदघाट्य प्रवेष्टव्यमिति॥ तत्र प्रविष्टस्य विधिं दर्शयितुमाह
मू. (३६३) से भिक्खू वा २ से जं पुण जाणिज्जा समणं वा माहणं वा गामपिंडोलगं वा अतिहिं वा पुव्वपविद्धं पेहाए नो तेसिं सं लोए सपडिदुवारे चिट्ठिजा, से तमायाय एगंतमवक्क मिजा २ अणावायमसंलोए चिट्ठिजा, से से परो अणावायमसंलोए चिट्ठमाणस्स असणं वा ४ आहड्ड दलज्जा, सेय एवं वइजा आउसंतो समणा ! इमे मे असणे वा ४ सव्वजणाए निसट्टे तं भुंजह वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org