Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Churni
Author(s): Sthaviracharya, Rupendrakumar Pagariya
Publisher: L D Indology Ahmedabad

Previous | Next

Page 19
________________ भगवतीचूर्णिः पञ्च हेत्वयं हीयते गम्यते ज्ञायते अवबुध्यते अनेनेति हेतुः । स च समासः ज्ञापकः कारकश्च । सवितृप्रदीपमण्युल्क-शब्द-धूमादिज्ञापकः कारको बीजपिण्डादि, स एवाधुना परिच्छिद्यमानः कर्म भवति । सम्यग् दृष्टिणा द्विविधोऽपि जिनवचनपुरस्कृत्य हेत्वर्थानुसारिणा द्रव्य-पर्यायतद्विकल्पप्रपञ्चितः सामान्यपुरुषोः भाषामात्रज्ञानातीतो ज्ञायते हेतुं जाणति तमेव पश्यति तमेवावबुध्यते । यथावस्थितमाभिमुखीभावेन प्राप्नोति गच्छति । तद्धेतुमान् हेतुः । छद्मन् कर्म तत्रस्थितः छद्मस्थः। मर्त्यस्य मरणं छद्मस्थमरणं तद्धितं म्रियते । छद्मस्थः मरणं म्रियते । मतिज्ञानादिचतुष्टयहेतुस्थितं छद्मस्थ इति यावत् । तेन वा हेतुना धूम-पीडादिलक्षणेन अग्निघटादिमवबुद्धयते । करणभूतेन पञ्चापि । स एवं पंचहेत्वयं मिथ्यादृष्टिहेतुं द्विविधमपि न जानाति । मत्यज्ञानं श्रुताज्ञान-विभंगं । यथाऽयथार्थाऽगमकत्वात् । उन्मत्तमनुजवत् । सोह्यहेतु अज्ञानमरणं म्रियते । तथा तेनैव हेयार्थाप्रतिपत्तेः सदसदुन्मत्तनगवत् । एवंविधोऽज्ञानमरणं म्रियते । भिद्यज्ञानावरणीयं केवलेनाधिकृत्य ज्ञानविभूतिरुच्यते । पञ्च हेत्वयं सो हि धूमादिकमर्थसम्बन्धकालप्रापणत्वाद्यवशेषिकं साक्षाद्वर्तमानविधि-नियमोभयात्मकं पश्यति । तथा हेयमत्यर्थमग्न्यादिकं साक्षात् । तथा परिणतद्रव्य-पर्यायात्मकम् । धूमादिलिङ्गादिक्रमेण गृण्हात्यहेतुकं । य एवंविधः स केवलिमरणं म्रियते । एष एव कैवल्यं हेत्वर्थसम्यगमिथ्यादृष्टिसामान्यछद्मस्थतामधिकृत्य निषिध्यमानो ज्ञानभागमयति । यथा केवलिना हेतुनिमित्तो हेतुरप्यवबुद्धयते न तथा तस्यामहेतुहेतुं जानीते पाटुत्वादि विशेषितमवबुध्यत इति यावत्, तेऽग्न्यादिकं मषिनैव अहेतुकं जानीते, सहेतुकमेवेति यावत् । स चैवंविधो ज्ञानमरणं म्रियते । सर्वज्ञवादादयस्याकेवलज्ञानमिथ्यादृष्टिआनादयोज्ञेन प्रसाधिता द्रष्टव्या । पञ्चमे सप्तमो ॥छ। भिद्यमानय द्वेधा समभागतां यान्ति तं सार्द्धं द्वेधा भिद्यमानस्य यत्र मध्येऽभिभिदं दृश्यते न तत् समध्यं नृप्रदेशिकवत् । प्रदेशावयवा ते यस्य सन्ति तत् सप्रदेशं । यथा द्वि प्रदेशाद्या एव, ते एते पोग्गला दव्वादेसेणं सपदेशा अपदेशा य, तहा खेत्तादेसेणं तच्चेव पोग्गला सपदेसा अपदेसा य, कालादेसेण विमे पोगला सपदेसा अपदेसा य, भावादेसेण विमे पोग्गला सपदेसा अपदेसा य । सद्दादयो पडुत्तर मज्झे चेव दट्टव्वा । प्रश्नानुगतमेवोत्तरं, जे दव्वा दो अपदेसा ते परमाणू ते णियमा खेत्ते अवगाहमाणा अपदेसे एव ओगाहंति । कालतो कदायि समद्वितीया कदायि दु समयाइ ठितीया । भावतो एकगुणकालगा वा दुगुणकालगा वा जावाणंतंको । एवं दव्व-खेत्त-काल-भावं पडेक्कं अपदेस-सपदेस भेदेणं तत्तेन चारेज्जा । भावादेसेण थोवा वण्ण-गंध-रस-फासेहिं वीसहिं गुणेहिं हीणा लभियन्व त्ति कट्ट गुणबहुपरिणामिणो य पोग्गला तेण ते Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122