Book Title: Acharangsutram Part 01
Author(s): Shilankacharya, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 564
________________ RSON श्रीआचाराङ्गवृत्तिः (शी०) ॥२७९॥ यप्रेयसीमार्थितस्तन्निर्गमोपायमलभमान आत्मोद्वन्धनाय विहायोगमनं तदाऽऽदद्याद्विषं वा भक्षयेत् पतनं वा कुर्याद | विमो०८ दीर्घकालं वा शीतस्पर्शादिकमसहिष्णुः सुदर्शनवत् प्राणान् जह्यात् । ननु च वेहानसादिकं बालमरणमुक्तं, तच्चानाय, उद्देशका४ तत्कथं तस्याभ्युपगमः, तथा चागमः-"इच्चेएणं बालमरणेणं मरमाणे जीवे अणंतेहिं नेरइयभवग्गहणेहिं अप्पाणं संजोएइ जाव अणाइयं च णं अणवयग्गं चाउरतं संसारकंतारं भुजो भुजो परियट्टईत्ति, अत्रोच्यते, नैष दोषोऽत्रास्माकमार्हतानां, नैकान्ततः किञ्चित्प्रतिषिद्धमभ्युपगतं वा मैथुनमेकं विहाय, अपि तु द्रव्यक्षेत्रकालभावानाश्रित्य तदेव प्रतिषिध्यते तदेव चाभ्युपगम्यते, उत्सर्गोऽप्यगुणायापवादोऽपि गुणाय कालज्ञस्य साधोरिति, एतदर्शयितुमाह-दीर्घकालं संय|मप्रतिपालनं विधाय संलेखनाविधिना कालपर्यायेण भक्तपरिज्ञादिमरणं गुणायेति, एवंविधे त्ववसरे तत्रापि वेहानसगा प्रष्ठादिमरणे अपि कालपर्याय एव, यद्वत्कालपर्यायमरणं गुणाय एवं वेहानसादिकमपीत्यर्थः, बहुनाऽपि कालपर्यायेण || यावन्मात्रं कर्मासौ क्षपयति तदसावल्पेनापि कालेन कर्मक्षयमवाप्नोतीति दर्शयति-'सोऽपि' वेहानसादेविधाता, न केवलमानुपूर्व्या भक्तपरिज्ञादेः कर्तेत्यपिशब्दार्थः, 'तत्र' तस्मिन् वेहानसादिमरणे 'विअंतिकारए'त्ति विशेषेणान्तिय॑न्तिः। |-अन्तक्रिया तस्याः कारको व्यन्तिकारकः, तस्य हि तस्मिन्नवसरे तद्वेहानसादिकमौत्सर्गिकमेव मरणं, यतोऽनेनाप्यापवादिकेन मरणेनानन्ताः सिद्धाः सेत्स्यन्ति च, उपसञ्जिहीर्घराह–इत्येतत्' पूर्वोक्तं वेहानसादिमरणं विगतमोहानामायतनम्-आश्रयः कर्त्तव्यतया तथा हितम् अपायपरिहारतया तथा सुखं जन्मान्तरेऽपि सुखहेतुत्वात् तथा 'क्षम' युक्तं ॥२७९॥ १ इत्येतेन बालमरणेन म्रियमाणो जीवोऽनन्तै रयिकभवग्रहणैरात्मानं संयोजयति यावदनादिकं चानवदनं चातुरन्तं संसारकान्तारं भूयो भूयः परिवर्तते. । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640