Book Title: Acharangsutram Part 01
Author(s): Shilankacharya,
Publisher: Agamoday Samiti
View full book text
________________
सव्वेसिं तवोकम्मं निरुवसग्गं तु वण्णिय जिणाणं । नवरं तु वद्धमाणस्स सोवसग्गं मुणेयव्वं ॥ २७७ ॥ तित्थयरो चउनाणी सुरमहिओ सिज्झियव्वय धुवम्मि । अणिगृहियबलविरओ तवोविहाणंमि उज्जमइ ॥ किं पुण अवसेसेहिं दुक्खक्खयकारणा सुविहिएहिं । होइ न उज्जमियव्वं सपच्चवायंमि माणुस्से १ ॥ २७९ ॥ गाथात्रयमप्युत्तानार्थम् ॥ अध्ययनार्थाधिकारं प्रतिपाद्योद्देशार्थाधिकारं प्रतिपादयन्नाह -
चरिया १ सिज्जा य२ परीसहाय ३ आयंकिया (ए) चिगिच्छा ४ य । तवचरणेणऽहिगारो चउसुद्देसेसु नायव्वो ॥ २८०॥ चरणं चर्यत इति वा चर्या - श्रीवीरवर्द्धमानस्वामिनो विहारः, अयं प्रथमोद्देश केऽर्थाधिकारः १, द्वितीयोदेशके त्वयमर्थाधिकारः, तद्यथा - शय्या - वसतिः सा च यादृग्भगवत आसीत् तादृग्वक्ष्यते २, तृतीये त्वयमर्थाधिकारः - मार्गाच्यवननिर्जरार्थं परिषोढव्याः परीषहाः, उपलक्षणार्थत्वादुपसर्गाश्चानुकूलप्रतिकूला वर्द्धमानस्वामिनो येऽभूवन् तेऽत्र प्रतिपाद्यन्ते ३, चतुर्थे त्वयमर्थाधिकारः, तद्यथा - 'आतङ्किते' क्षुत्पीडायामातङ्कोत्पत्तौ विशिष्टाभिग्रहावाप्ताहारेण चिकित्सेदिति ४, तपश्चरणाधिकारस्तु चतुर्ष्वप्युद्देशकेष्वनुयायीति गाथार्थः ॥ निक्षेपत्रिधा - ओघनिष्पन्नो नामनिष्पन्नः सूत्रालापकनिष्पन्नश्च तत्रौघनिष्पन्ने निक्षेपेऽध्ययनं, नामनिष्पन्ने तूपधानश्रुतमिति द्विपदं नाम, तत्रोपधानस्य श्रुतस्य च यथाक्रमं निक्षेपः कर्तव्य इति न्यायादुपधाननिक्षेपचिकीर्षयाऽऽह
Jain Education International
नामंठवणुवहाणं दव्वे भावे य होइ नायव्वं । एमेव य सुत्तस्सवि निक्खवो चउव्विहो होइ ॥ २८९ ॥ नामोपधानं स्थापनोपधानं द्रव्योपधानं भावोपधानं च श्रुतस्याप्येवमेव चतुर्द्धा निक्षेपः, तत्र द्रव्यश्रुतमनुपयुक्तस्य
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640