Book Title: Acharangsutram Part 01
Author(s): Shilankacharya, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 617
________________ वते च-नोपभुङ्क्ते च परवस्त्रं-प्रधानं वस्त्रं परस्य वा वस्त्रं परवस्त्रं नासेवते, तथा परपात्रेऽप्यसौ न भुते, तथा परिव ापमानम्-अवगणय्य गच्छति असावाहाराय सङ्खण्ड्यन्ते प्राणिनोऽस्यामिति सङ्खण्डिस्तामाहारपाकस्थानभूतामशरणाय शरणमनालम्बमानोऽदीनमनस्कः कल्प इतिकृत्वा परीषहविजयार्थ गच्छतीति ॥ किं च-आहारस्य मात्रां जानातीति मात्राज्ञः, कस्य?-अश्यत इत्यशनं-शाल्योदनादि पीयत इति पानं-द्राक्षापानकादिः तस्य च, तथा नानुगृद्धो 'रसेषु' विकृतिषु, भगवतो हि गृहस्थभावेऽपि रसेषु गृद्धिर्नासीत्, किं पुनः प्रव्रजितस्येति?, तथा रसेष्वेव ग्रहणं प्रत्यप्रतिज्ञो, यथा-मयाऽद्य सिंहकेसरा मोदका एव ग्राह्या इत्येवंरूपप्रतिज्ञारहितोऽन्यत्र तु कुल्माषादौ सप्रतिज्ञ एव, तथाऽक्ष्यपि रजःकणुकाद्यपनयनाय नो प्रमार्जयेन्नापि च गात्रं मुनिरसौ कण्डूयते-काष्ठादिना गात्रस्य कण्डूव्यपनोदं न विधत्त इति ॥ किं च अप्पं तिरियं पेहाए अप्पि, पिट्टओ पेहाए । अप्पं बुइएऽपडिभाणी पंथपेहि चरे जयमाणे ॥ २१ ॥ सिसिरंसि अद्धपडिवन्ने तं वोसिज वत्थमणगारे । पसारितु बाहुँ परक्कमे नो अवलम्बियाण कंधमि ॥ २२ ॥ एस विही अणुकन्तो माहणेण मईमया। बहुसोअपडिन्नेण भगवया एवं रियंति ॥२३॥ तिबेमि ॥ उपधानश्रुताध्ययनोद्देशः१॥९-१॥ Jain Educationsaney For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640