Book Title: Acharangsutram Part 01
Author(s): Shilankacharya,
Publisher: Agamoday Samiti
View full book text
________________
च्यन्ते, अधिकृताचाराङ्गस्य ज्ञानक्रियात्मकतयोभयरूपत्वात् ज्ञानक्रियाधीनत्वान्मोक्षस्य तदर्थं च शास्त्रप्रवृत्तेरिति भावः, अत्र च परस्परतः सव्यपेक्षावेव ज्ञानक्रियानयौ विवक्षितकार्यसिद्धयेऽलं नान्योऽन्यनिरपेक्षा वित्येतत्प्रपञ्चयते, तत्र ज्ञाननयाभिप्रायोऽयम् - यथा ज्ञानमेव प्रधानं न क्रियेति, समस्तहेयोपादेयहानोपादानप्रवृत्तेर्ज्ञानाधीनत्वात्, तथा हि सुनिश्चितात् सम्यग्ज्ञानात्प्रवृत्तोऽर्थक्रियार्थी न विसंवाद्यते, तथा चोक्तम् — “विज्ञप्तिः फलदा पुंसां, न क्रिया फलदा मता । मिथ्याज्ञानात् प्रवृत्तस्य फलासंवाददर्शनाद् ॥ १ ॥" इत्यादि, संविन्निष्ठत्वाच्च विषयव्यवस्थितीनां तत्पूर्वकसकलदुःखप्रहीणत्वाच्चान्वयव्यतिरेकदर्शनाच्च ज्ञानस्य प्राधान्यं तथाहि - ज्ञानाभावेऽनर्थपरिहाराय प्रवर्त्तमानोऽपि तत्करोति येन नितरां पतङ्गवदनर्थेन संयुज्यते, ज्ञानसद्भावे च समस्तानप्यर्थानर्थसंशयांश्च यथाशक्तितः परिहरति, तथा चागमः - 'पढमं नाणं तओ' इत्यादि, एवं तावत्क्षायोपशमिकं ज्ञानमाश्रित्योक्तं, क्षायिकमप्याश्रित्य तदेव प्रधानं, यस्माद्भगवतः प्रणतसुरासुरमुकुटकोटिवेदिकाङ्कितचरणयुगलपीठस्य भवाम्भोधितटस्थस्य प्रतिपन्नदीक्षस्य त्रिलोकबन्धोस्तपश्चरणवतोऽपि न तावदपवर्गप्राप्तिः सञ्जायते यावज्जीवाजी वाद्यखिलवस्तुपरिच्छेदरूपं घनघातिकर्म्मसंहतिक्षयात्केवलज्ञानं नोत्पन्नमित्यतो ज्ञानमेव प्रधानमैहिकामुष्मिकफलप्राप्तिकारणं, युक्तियुक्तत्वादिति । अधुना क्रियानयाभिप्रायोऽभिधीयते, तद्यथा - क्रियैव प्रधान मैहिकामुष्मिक फलप्राप्तिकारणं, युक्तियुक्तत्वात् यस्मादर्शितेऽपि ज्ञानेनार्थक्रियासमर्थेऽर्थे प्रमाता प्रेक्षापूर्वकारी यदि हानोपादानरूपां प्रवृत्तिक्रियां न कुर्यात् ततो ज्ञानं विफलतामियातू, तदर्थत्वात्तस्येति, यस्य हि यदर्थं प्रवृत्तिस्तत्तस्य प्रधानमितरदप्रधानमिति न्यायात्, संविदा विषयव्यवस्थानस्याप्यर्थक्रियार्थत्वात्त्रि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 635 636 637 638 639 640