Book Title: Acharangsutram Part 01
Author(s): Shilankacharya,
Publisher: Agamoday Samiti
View full book text
________________
समियासी ॥ १६ ॥ एस विही अणु० रीयइ ॥ १७ ॥ तिबेमि ९-४ ब्रह्मचर्यश्रुतस्कन्धे
नवमाध्ययने चतुर्थ उद्देशकः ॥९॥ __'सूइयं त्ति दध्यादिना भक्तमार्तीकृतमपि तथाभूतं शुष्कं वा-वल्लचनकादि शीतपिण्डं वा-पर्युषितभक्तम् तथा 'पुराणहै। कुल्माषं वा' बहुदिवससिद्धस्थितकुल्माषं, 'बुक्कसंति चिरन्तनधान्यौदनं, यदिवा. पुरातनसक्तुपिण्डं, यदिवा बहुदिवस
सम्भृतगोरसं गोधूममण्डकं चेति, तथा 'पुलाकं' यवनिष्पावादि, तदेवम्भूतं पिण्डमवाप्य रागद्वेषविरहाद् द्रविको भगवान् तथाऽन्यस्मिन्नपि पिण्डे लब्धेऽलब्धे वा द्रविक एव भगवानिति, तथाहि-लब्धे पर्याप्ते शोभने वा नोत्कर्ष याति, नाप्यलब्धेऽपर्याप्तेऽशोभने वाऽऽत्मानमाहारदातारं वा जुगुप्सते ॥ किं च-तस्मिंस्तथाभूत आहारे लब्ध उपभुक्तेऽलब्धे चापि ध्यायति स महावीरो, दुष्प्रणिधानादिना नापध्यानं विधत्ते, किमवस्थो ध्यायतीति दर्शयति-आसनस्थःउत्कुटुकगोदोहिकावीरासनाद्यवस्थोऽकौत्कुचः सन्-मुखविकारादिरहितो ध्यान-धर्मशुक्लयोरन्यतरदारोहति, किं पुनस्तत्र ध्येयं ध्यायतीति दर्शयितुमाह-ऊर्ध्वमधस्तिर्यग्लोकस्य ये जीवपरमाण्वादिका भावा व्यवस्थितास्तान् द्रव्यपर्यायनित्यानित्यादिरूपतया ध्यायति, तथा समाधिम्-अन्तःकरणशुद्धिं च प्रेक्षमाणोऽप्रतिज्ञो ध्यायतीति ॥ किं च-न कषाय्यकपायी तदुदयापादितभ्रकुट्यादिकार्याभावात् , तथा विगता गृद्धिः-गार्थ्य यस्यासौ विगतगृद्धिः, तथा शब्दरूपादिष्विन्द्रियार्थेष्वमूच्छितो ध्यायति, मनोऽनुकूलेषु न रागमुपयाति नापीतरेषु द्वेषवशगोऽभूदिति, तथा छद्मनि-ज्ञानदर्शना
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 633 634 635 636 637 638 639 640