Book Title: Acharangsutram Part 01
Author(s): Shilankacharya,
Publisher: Agamoday Samiti
View full book text
________________ SOSIAALIGROSARIAIS शिष्यः पृच्छति-किमिदानी तत्त्वमस्तु?, आचार्य आह-नन्वभिहितमेव विस्मरणशीलो देवानांप्रियो यथा ज्ञानक्रियानयौ परस्परसव्यपेक्षौ सकलकर्मकन्दोच्छेदात्मकस्य मोक्षस्य कारणभूताविति, प्रदीप्तसमस्तनगरान्तर्वर्तिपरस्परोपकार्योपकारकभावावाप्तानाबाधस्थानौ पवन्धाविवेति, तथा चोक्तम्-"संजोयसिद्धीऍ फलं वदन्ती'त्यादि, स्वतन्त्रप्रवृत्तौ तु न विवक्षितकार्य साधयत इत्येतच्च प्रसिद्धमेव, यथा 'हयं णाण'मित्यादि, आगमेऽपि सर्वनयोपसंहारद्वारेणायमेवार्थोभिहितो, यथा-'सव्वेसिपि णयाणं बहुविहवत्तवयं णिसामेत्ता। तं सव्वणयविसुद्धं जं चरणगुणडिओ साहू // 1 // त्ति', तदेतदाचाराङ्गं ज्ञानक्रियात्मक अधिगतसम्यक्पथानां कुश्रुतसरित्कषायझषकुलाकुलं प्रियविप्रयोगाप्रियसंप्रयोगायनेकव्यसनोपनिपातमहावर्त मिथ्यात्वपवनेरणोपस्थापितभयशोकहास्यरत्यरत्यादितरङ्ग विश्रसावेलाचितं व्याधिशतनकचक्रालयं महागम्भीरं भयजननं पश्यतां त्रासोसादकं महासंसारार्णवं साधूनामुत्तितीर्षतां तदुत्तरणसमर्थमव्याहतं यानपात्रमिति, अतो मुमुक्षुणाऽऽत्यन्तिकैकान्तिकानाबाधं शाश्वतमनन्तमजरममरमक्षयमव्याबाधमुपरतसमस्तद्वन्द्वं सम्यग्दर्शनज्ञानव्रतचरणक्रियाकलापोपेतेन परमार्थपरमकार्यमनुत्तमं मोक्षस्थानं लिप्सुना समालम्बनीयमिति तदात्मकस्य ब्रह्मचर्याख्यश्रुतस्कन्धस्य निर्वृतिकुलीनश्रीशीलाचार्येण तत्त्वादित्यापरनाम्ना वाहरिसाधुसहायेन कृता। टीका परिसमाप्तेति // श्लोकतो ग्रन्थमानम् // 976 // 1 संयोगसिद्धेः फलं वदन्ति (नैवैकचक्रेण रथः प्रयाति / अन्धश्च पञ्जुश्च वने समेत्य तौ संप्रयुक्तौ नगरं प्रविष्टौ // 1 // ) 2 हतं ज्ञानं 2 षामपि नयानां बहुविधवक्तव्यतां निशम्य / तत्सर्वनय विशुद्धं यचरणगुणस्थितः साधुः // 1 // Jain Education International For Personal &Private Use Only www.jainelibrary.org

Page Navigation
1 ... 638 639 640