Book Title: Acharangsutram Part 01
Author(s): Shilankacharya,
Publisher: Agamoday Samiti
View full book text
________________
IML
सत्त्वाः सर्वगतिभाजः, ते च 'बाला'रागद्वेषाकलिताः स्वकृतेन कर्मणा पृथक्तया सर्वयोनिभाक्त्वेन च 'कल्पिताः' व्यवस्थिता इति, तथा चोक्तम्-"णत्थि किर सो पएसो लोए वालग्गकोडिमित्तोऽवि । जम्मणमरणाबाहा अणेगसो जत्थ णवि पत्ता ॥१॥” अपि च-"रङ्गभूमिर्न सा काचिच्छुद्धा जगति विद्यते । विचित्रैः कर्मनेपथ्यैर्यत्र सत्त्वैन नाटितम् ॥२॥” इत्यादि ॥ किं च-भगवांश्च-असौ वीरवर्द्धमानस्वाम्येवममन्यत-ज्ञातवान् सह उपधिना वर्तत इति सोपधिकः-द्रव्यभावोपधियुक्तः, दुरवधारणे, लुप्यत एव-कर्मणा क्लेशमनुभवत्येव 'अज्ञो' बाल इति, यदिवा हुर्हेतौ य-10 स्मात्सोपधिकः कर्मणा लुप्यते बालस्तस्मात्कर्म च सर्वशो ज्ञात्वा तत्कर्म प्रत्याख्यातवांस्तदुपादानं च पापकमनुष्ठानं भगवान् वर्द्धमानस्वामीति ॥ किं च-द्वे विधे-प्रकारावस्येति द्विविधं, किं तत्?-कर्म, तच्चेर्याप्रत्ययं साम्परायिकं च, तद्विविधमपि 'समेत्य' ज्ञात्वा 'मेधावी' सर्वभावज्ञः, 'क्रियां' संयमानुष्ठानरूपां कर्मोच्छेत्रीमनीहशीम्-अनन्यसदृशीमाख्यातवान्, किंभूतो?-ज्ञानी, केवलज्ञानवानित्यर्थः, किं चापरमाख्यातवानिति दर्शयति-आदीयते कर्मानेनेति आदान-दुष्प्रणिहितमिन्द्रियमादानं च तत् स्रोतश्चादानस्रोतस्तत् ज्ञात्वा तथाऽतिपातस्रोतश्च उपलक्षणार्थत्वादस्य मृषावादादिकमपि ज्ञात्वा तथा 'योगं च' मनोवाकायलक्षणं दुष्पणिहितं 'सर्वशः' सर्वैः प्रकारैः कर्मबन्धायेति ज्ञात्वा क्रियां संयमलक्षणामाख्यातवानिति सम्बन्धः॥ किं चं
. अइवत्तियं अणाउहिँ सयमन्नेसिं अकरणयाए।जस्सित्थिओ परिन्नाया सव्वकम्मावहा१ नास्ति किल स प्रदेशो लोके वालाप्रकोटीमात्रोऽपि । जन्ममरणाबाधा भनेकशो यत्र नैव प्राप्ताः ॥१॥
Jain Educatio
n
al
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640