________________
XOSSASSASSACARE
यदिवा पिहितारों-गुप्ततनुः स भगवान् छद्मस्थकालेऽभिज्ञातदर्शनः-सम्यक्त्वभावनया भावितः शान्तः इन्द्रियनोइन्द्रियैः॥ स एवंभूतो भगवान् गृहवासेऽपि सावद्यारम्भत्यागी, किं पुनः प्रव्रज्यायामिति दर्शयितुमाह
पुढविं च आउकायं च तेउकायं च वाउकायं च । पणगाइं बीयहरियाइं तसकायं च सव्वसो नच्चा ॥ १२ ॥ एयाइं सन्ति पडिलेहे, चित्तमन्ताइ से अभिन्नाय । परिवजिय विहरित्था इय सङ्खाय से महावीरे ॥ १३ ॥ अदु थावरा य तसत्ताए, तसा य थावरत्ताए । अदुवा सव्वजोणिया सत्ता कम्मुणा कप्पिया पुढो बाला ॥ १४ ॥ भगवं च एवमन्नेसिं सोवहिए हु लुप्पई बाले । कम्मं च सव्वसो नच्चा तं पडियाइक्खे पावगं भगवं ॥ १५ ॥ दुविहं समिच्च मेहावी किरियमक्खायऽणेलिसं नाणी । आयाणसो
यमइवायसोयं जोगं च सव्वसो णच्ची ॥ १६ ॥ श्लोकद्वयस्याप्ययमर्थः-एतानि पृथिव्यादीनि चित्तमन्त्यभिज्ञाय तदारम्भं परिवर्य विहरति स्म, क्रियाकारकसम्बन्धः, तत्र पृथिवी सूक्ष्मबादरभेदेन द्विधा, सूक्ष्मा सर्वगा, बादराऽपि श्लक्ष्णकठिनभेदेन द्विधैव, तत्र श्लक्ष्णा शुक्लादिपञ्चवर्णा,
न
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org