Book Title: Acharangsutram Part 01
Author(s): Shilankacharya, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 621
________________ त्रापि स्वापाभ्युपगमपूर्वकं शयित इत्यर्थः ॥ किं च स मुनिनिंद्राप्रमादाद् व्युत्थितचित्तः 'संबुध्यमानः' संसारपातायायं प्रमाद इत्येवमवगच्छन् पुनरप्रमत्तो भगवान् संयमोत्थानेनोत्थाय यदि तत्रान्तर्व्यवस्थितस्य कुतश्चिन्निद्राप्रमादः स्यात् ततस्तस्मान्निष्क्रम्यैकदा शीतकालरात्रादौ बहिश्चङ्क्रम्य मुहूर्त्तमात्रं निद्राप्रमादापनयनार्थ ध्याने स्थितवानिति ॥ किं च-शय्यते - स्थीयते उत्कुटुकासनादिभिर्येष्विति शयनानि - आश्रयस्थानानि तेषु तैर्वा तस्य भगवत उपसर्गा 'भीमा' भयानका आसन् अनेकरूपाश्च शीतोष्णादिरूपतयाऽनुकूलप्रतिकूलरूपतया वा, तथा संसर्पन्तीति संसर्पकाः - शून्यगृहादावहिन - कुलादयो ये प्राणिनः 'उपचरन्ति' उप - सामीप्येन मांसादिकमश्नन्ति अथवा श्मशानादौ पक्षिणो गृध्रादय उपचर - न्तीति वर्त्तते ॥ किं च - 'अथ' अनन्तरं कुत्सितं चरन्तीति कुचराः - चौरपारदारिकादयस्ते च क्वचिच्छून्यगृहादौ 'उपचरन्ति' उपसर्गयन्ति, तथा ग्रामरक्षादयश्च त्रिकचत्वरादिव्यवस्थितं शक्तिकुन्तादिहस्ता उपचरन्तीति, अथ 'ग्रामिका' ग्रामधर्म्माश्रिता उपसर्गा एकाकिनः स्युः, तथाहि - काचित्स्त्री रूपदर्शनाभ्युपपन्ना उपसर्गयेत् पुरुषो वेति ॥ किं च Jain Education International इहलोइयाइं परलोइयाई भीमाई अणेगरूवाई | अवि सुब्भि दुब्भिगन्धाई सद्दाई अगवाई ॥ ९ ॥ अहियासए सया समिए फासाई विरूवरूवाई । अरई रई अभिभूय यह माहणे अबहुवाई ॥ १० ॥ स जणेहिं तत्थ पुच्छि एगचरावि एगया राओ | अव्वाहिए कसाइत्था पेहमाणे समाहिं अपनेि ॥ ११ ॥ अयमंतरंसि For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640