Book Title: Acharangsutram Part 01
Author(s): Shilankacharya, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 630
________________ श्रीआचाराङ्गवृत्तिः (शी०) ॥ ३१२ ॥ उक्तस्तृतीयोद्देशकः, साम्प्रतं चतुर्थ आरभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तरोदेशके भगवतः परीषहोपसर्गाधिसहनं प्रतिपादितं तदिहापि रोगातङ्कपीडाचिकित्सान्युदासेन सम्यगधिसहते तदुत्पत्तौ च नितरां तपश्चरणायोद्यच्छतीत्येतत्प्रतिपाद्यते, तदनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम् — ओमोयरियं चाes अपुट्ठेऽवि भगवं रोगेहिं । पुट्टे वा अपुट्ठे वा नो से साइज्जई तेइच्छं ॥ १ ॥ संसोहणं च वमणं च गायब्भंगणं च सिणाणं च । संबाहणं च न से कप्पे दन्तपक्खालणं च परिन्नाए ॥ २ ॥ विरए गामधम्मेहिं रीयइ माहणे अबहुवाई | सिसिरंमि एगया भगवं छायाए झाइ आसीय ॥ ३ ॥ आयावइ य गिम्हाणं अच्छइ उक्कुडुए अभितावे । अदु जाव इत्थ लूहेणं ओयणमंथु कुम्मासेणं ॥ ४ ॥ अपि शीतोष्णदंशमशकाक्रोशताडनाद्याः शक्याः परीषहाः सोढुं न पुनरव मोदरतां, भगवांस्तु पुना रोगैरस्पृष्टोऽपि वातादिक्षोभाभावेऽप्यवमौदर्य न्यूनोदरतां शक्नोति कर्तुं, लोको हि रोगैरभिद्रुतः संस्तदुपशमनायावमोदरतां विधत्ते भगवांस्तु तदभावेऽपि विधत्त इत्यपिशब्दार्थः, अथवाऽस्पृष्टोऽपि कासश्वासादिभिर्द्रव्यरोगैः अपिशब्दात्स्पृष्टोऽप्यसद्वेदनीयादिभिर्भावरोगैर्न्यनोदरतां करोति, अथ किं द्रव्यरोगातङ्का भगवतो न प्रादुष्ष्यन्ति येन भावरोगैः स्पृष्ट इत्युक्तं ?, तदुच्यते, भगवतो हि न प्राकृतस्येव देहजाः कासश्वासादयो भवन्ति, आगन्तुकास्तु शस्त्रप्रहारजा भवेयुः इत्येतदेव Jain Education International For Personal & Private Use Only उपधा० ९ उद्देशकः४ ॥ ३१२ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 628 629 630 631 632 633 634 635 636 637 638 639 640