Book Title: Acharangsutram Part 01
Author(s): Shilankacharya, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 620
________________ श्रीआचारावृत्तिः (शी०) उपधा०९ उद्देशकः२ ॥३०७॥ सकुड्याकुब्यकृतो, वृक्षमूले वा एकदा वास इति ॥ किं च एतेषु' पूर्वोक्तेषु 'शयनेषु' वसतिषु स 'मुनिः' जगत्रयवेत्ता ऋतुबद्धेषु वर्षासु वा 'श्रमणः' तपस्युद्युक्तः समना वाऽऽसीत् निश्चलमना इत्यर्थः, कियन्तं कालं यावदिति दर्शयति'पतेलसवासे'त्ति प्रकर्षण त्रयोदशं वर्ष यावत्समस्तां रात्रिं दिनमपि यतमानः संयमानुष्ठान उद्युक्तवान् तथाऽप्रमत्तो-निद्रादिप्रमादरहितः 'समाहितमनाः' विस्रोतसिकारहितो धर्मध्यानं शुक्लध्यानं वा ध्यायतीति ॥ किं च णिपि नो पगामाए, सेवइ भगवं उट्टाए । जग्गावइ य अप्पाणं इसिं साई य अपडिन्ने ॥ ५॥ संबुज्झमाणे पुणरवि आसिंसु भगवं उट्टाए । निक्खम्म एगया राओ बहि चंकमिया मुहुत्तागं ॥ ६॥ सयणेहिं तत्थुवसग्गा भीमा आसी अणेगरूवा य । संसप्पगा य जे पाणा अदुवा जे पक्खिणो उवचरन्ति ॥ ७ ॥ अदु कुचरा उवचरन्ति गामरक्खा य सत्तिहत्था य । अदु गामिया उवसग्गा इत्थी एगइया पुरिसा य ॥८॥ निद्रामप्यसावपरप्रमादरहितो न प्रकामतः सेवते, तथा च किल भगवतो द्वादशसु संवत्सरेषु मध्येऽस्थिकग्रामे व्यन्तरोपसर्गान्ते कायोत्सर्गव्यवस्थितस्यैवान्तर्मुहूर्त यावत्स्वप्नदर्शनाध्यासिनः सकृन्निद्राप्रमाद आसीत्, ततोऽपि चोत्थायात्मानं 'जागरयति' कुशलानुष्ठाने प्रवर्तयति, यत्रापीषच्छय्याऽऽसीत् तत्राप्यप्रतिज्ञः-प्रतिज्ञारहितो, न त ॥३०७॥ JainEducatioinle For Personal & Private Use Only www.janelibrary.org

Loading...

Page Navigation
1 ... 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640