Book Title: Acharangsutram Part 01
Author(s): Shilankacharya, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 627
________________ विहरिंसु ॥ ५॥ एवंपि तत्थ विहरन्ता पुटपुव्वा अहेसि सुणिएहिं । संलुञ्चमाणा सुणएहिं दुच्चराणि तत्थ लाहिं ॥ ६॥ निहाय दण्डं पाणेहिं तं कायं वोसजमणगारे । अह गामकण्टए भगवन्ते अहिआसए अभिसमिच्चा ॥ ७॥ नागो संगामसीसे वा पारए तत्थ से महावीरे । एवंपि तत्थ लाढेहिं अलद्धपुव्वोवि एगया गामो ॥८॥ _ 'इदृक्षः' पूर्वोक्तस्वभावो यत्र जनस्तं तथाभूतं जनपदं भगवान् 'भूयः' पौनःपुन्येन विहृतवान् , तस्यां च वज्रभूमौ । बहवो जनाः परुषाशिनो-रूक्षाशिनो रूक्षाशितया च प्रकृतिकोधनास्ततो यतिरूपमुपलभ्य कदर्थयन्ति, ततस्तत्रान्ये श्रमणाः शाक्यादयो यष्टिं-देहप्रमाणां चतुरङ्गुलाधिकप्रमाणां वा नालिकां गृहीत्वा श्वादिनिषेधनाय विजहुरिति॥किंच-एवमपि । यष्ट्यादिकया सामग्र्या श्रमणा विहरन्तः 'स्पृष्टपूर्वा' आरब्धपूर्वाः श्वभिरासन् , तथा 'संलुच्यमाना' इतश्चेतश्च भक्ष्यमाणाः श्वभिरासन् , दुर्निवारत्वात्तेषां, 'तत्र' तेषु लाढेष्वार्यलोकानां दुःखेन चर्यन्त इति दुश्चराणि-ग्रामादीनीति ॥तदेवंभूतेष्वपि लाढेषु कथं भगवान् विहृतवानिति दर्शयितुमाह-प्राणिषु यो दण्डनाइण्डो-मनोवाक्कायादिकस्तं भगवान् ‘निधाय' त्यक्त्वा, तथा तच्छरीरमप्यनगारो व्युत्सृज्याथ 'ग्रामकण्टकान्' नीचजनरूक्षालापानपि भगवांस्तांस्तान सम्यक्करणतया I निर्जरामभिसमेत्य-ज्ञात्वाऽध्यासयति-अधिसहते ॥ कथमधिसहत इति दृष्टान्तद्वारेण दर्शयितुमाह-'नागो'हस्ती य Jain Educational For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640