Book Title: Acharangsutram Part 01
Author(s): Shilankacharya, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 614
________________ उपधा०९ उद्देशकः१ श्रीआचा- र कठिना तु पृथ्वीशर्करावालुकादि षट्त्रिंशद्भेदा शस्त्रपरिज्ञानुसारेण द्रष्टव्या, अप्कायोऽपि सूक्ष्मबादरभेदाविधा, तत्र राङ्गवृत्तिः सूक्ष्मः पूर्ववदादरस्तु शुद्धोदकादिभेदेन पञ्चधा, तेजःकायोऽपि पूर्ववत् नवरं बादरोऽङ्गारादि पञ्चधा, वायुरपि तथैव, (शी०) नवरं बादर उत्कलिकादिभेदेन पञ्चधा, वनस्पतिरपि सूक्ष्मबादरभेदेन द्विधा, तत्र सूक्ष्मः सर्वगो बादरोऽप्यग्रमूलस्कन्ध पर्वबीजसम्मूर्छनभेदात्सामान्यतः षोढा, पुनर्द्विधा-प्रोकः साधारणश्च, तत्र प्रत्येको वृक्षगुच्छादिभेदावादशधा, साधा॥३०४॥ रणस्त्वनेकविध इति, स एवं भेदभिन्नोऽपि वनस्पतिः सूक्ष्मस्य सर्वगतत्वादतीन्द्रियत्वाच्च तद्व्युदासेन बादरो भेदत्वेन संगृहीतः, तद्यथा-पनकग्रहणेन बीजाकुरभावरहितस्य पनकादेरुल्यादिविशेषापन्नस्य ग्रहणं, बीजग्रहणेन त्वग्रबीजादेरुपादानं, हरितशब्देन शेषस्येत्येतानि पृथिव्यादीनि भूतानि सन्ति' विद्यन्त इत्येवं प्रत्युपेक्ष्य तथा 'चित्तवन्ति' सचेतनान्यभिधाय-ज्ञात्वा 'इति' एतत्सख्याय-अवगम्य स भगवान्महावीरस्तदारम्भं परिवर्त्य विहृतवानिति ॥ पृथिवीकायादीनां जन्तूनां त्रसस्थावरत्वेन भेदमुपदर्य साम्प्रतमेषां परस्परतोऽनुगमनमप्यस्तीत्येतदर्शयितुमाह-'अर्थ' आनन्तर्ये 'स्थावराः' पृथिव्यप्तेजोवायुवनस्पतयः ते 'त्रसतया' द्वीन्द्रियादितया 'विपरिणमन्ते' कर्मवशाद् गच्छन्ति, चशब्द | उत्तरापेक्षया समुच्चयार्थः, तथा 'त्रसजीवाश्च' कृम्यादयः 'स्थावरतया' पृथिव्यादित्वेन कर्मनिघ्नाः समुत्सद्यन्ते, तथा चान्यत्राप्युक्तम्-"अयण्णं भन्ते ! जीवे पुढविक्काइयत्ताए जाव तसकाइयत्ताए उववण्णपुवे?, हन्ता गोअमा! असई अदुवाऽणंतखुत्तो जाव उववण्णपुवे"त्ति, अथवा सर्वा योनयः-उत्पत्तिस्थानानि येषां सत्त्वानां ते सर्वयोनिकाः। १ अयं भदन्त ! जीवः पृथ्वीकायिकतया यावत् त्रसकायिकतयोत्पन्नपूर्वः?, हन्त गौतम ! असकृत् अनन्तकृत्वो यावदुत्पन्नपूर्वः, ॥३०४॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640