Book Title: Acharangsutram Part 01
Author(s): Shilankacharya, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 606
________________ श्रीआचा- दण्डं करोति, पुनर्द्वितीयसमये तिरश्चीनमालोकान्तात्कायप्रमाणमेवौदारिककार्मणशरीरयोगी कपाटवत्कपाटं विधत्ते, उपधा०९ राङ्गवृत्तिः व तृतीयसमये त्वपरदिक्तिरश्चीनमेव कार्मणशरीरयोगी मन्थानवन्मन्थानं करोति, अनुश्रेणिगमनाच्च लोकस्य प्रायशो | बहु पूरितं भवति, ततश्चतुर्थसमये कार्मणकाययोगेनैव मन्थान्तरालव्यापनात्सह निष्कुटैर्लोकः पूरितो भवति, पुनरने उद्देशकः१ (शी०) नैव क्रमेण पश्चानुपूा समुद्घातावस्थां चतुर्भिरेव समयैरुपसंहरंस्तव्यापारवांस्तत्तद्योगो भवति, केवलं षष्ठसमये मन्थानमुपसंहरन्नौदारिकमिश्रयोगी स्यादिति, तदेवं केवली समुद्घातं संहृत्य प्रत्यर्प्य च फलकादिकं ततो योगनिरोधं विधत्ते, तद्यथा-पूर्व मनोयोगं बादरं निरुणद्धि, पुनर्वाग्योगं काययोगं च बादरमेवेति, पुनरनेनैव क्रमेण सूक्ष्ममनोयोगं निरुणद्धि, ततः सूक्ष्मवाग्योगं निरुणद्धि, ततः सूक्ष्मकाययोगं निरुन्धन सूक्ष्मक्रियमप्रतिपाति तृतीयं शुक्लध्यानभेदमारोहति, तन्निरोधे च व्युपरतक्रियमनिवर्ति चतुर्थ शुक्लध्यानमारोहति, तदारूढश्चायोगिकेवलिभावमुपगतः सन्नन्तर्मुहूर्त यावत्कालमजघन्योत्कृष्टमास्ते, तत्र चासौ येषां कर्मणामुदयो नास्ति तानि स्थितिक्षयेण क्षपयन् वेद्यमानासु चापरम कृतिषु सङ्कामयन् क्षपयंश्च तावद्गतो यावद्विचरमसमयं, तत्र च द्विचरमसमये देवगतिसहगताः कर्मप्रकृतीः क्षपयति, हताश्चेमाः-देवगतिस्तदानुपूर्वी वैक्रियाहारकशरीरतदङ्गोपाङ्गचतुष्टयमेतद्वन्धनसङ्घाताविति च, तथा तत्रैवापरा इमाः क्षपयति, तद्यथा-औदारिकतैजसकार्मणानि शरीराणि एतद्वन्धनानि त्रीणि सङ्घातांश्च षट् संस्थानानि षट् संहननानि । औदारिकशरीराङ्गोपाङ्गं वर्णगन्धरसस्पर्शा मनुष्यानुपूर्व्यगुरुलघूपघातपराघातोच्छ्रासप्रशस्ताप्रशस्तविहायोगतयस्तथाऽपर्या- 5 ॥३०॥ तकप्रत्येकस्थिरास्थिरशुभाशुभसुभगदुर्भगसुस्वरदुःस्वरानादेयायश कीर्चिनिर्माणानि तथा नीचैर्गोत्रमन्यतरदिनीयमिति, PROSES RESSACRARIX dain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640