Book Title: Acharangsutram Part 01
Author(s): Shilankacharya, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 610
________________ श्रीआचा राङ्गवृत्तिः (शी०) ॥ ३०२ ॥ ॥ ७ ॥ णो सुकरमेयमेगेसिं नाभिभासे य अभिवायमाणे । हयपुव्वे तत्थ दण्डेहिं लूसियपुव्वे अप्पपुण्णेहिं ॥ ८ ॥ 'अथ' आनन्तर्ये पुरुषप्रमाणा पौरुषी - आत्मप्रमाणा वीथी तां गच्छन् ध्यायतीर्यासमितो गच्छति, तदेव चात्र ध्यानं यदीर्यासमितस्य गमनमिति भावः किंभूतां तां ? - तिर्यग्भित्तिं शकटोर्द्धिवदादौ सङ्कटामग्रतो विस्तीर्णामित्यर्थः, कथं ध्यायति ?, 'चक्षुरासाद्य' चक्षुर्दत्त्वाऽन्तः - मध्ये दत्तावधानो भूत्वेति, तं च तथा रीयमाणं दृष्ट्वा कदाचिदव्यक्तवयसः कुमारादय उपसर्गयेयुरिति दर्शयति- 'अथ' आनन्तर्ये चक्षुः शब्दोऽत्र दर्शनपर्यायो, दर्शनादेव भीता दर्शनभीताः संहिता - मिलितास्ते बहवो डिम्भादयः पांसुमुष्ट्यादिभिर्हत्वा हत्वा चक्रन्दुः, अपरांश्च चुक्रुशुः - पश्यत यूयं नग्नो मुण्डितः, तथा कोऽयं कुतोऽयं किमीयो वा अयमित्येवं हलबोलं चक्रुरिति ॥ किं च शय्यत एष्विति शयनानि - वसतयस्तेषु कुतश्चिन्नि मित्ताद्व्यतिमिश्रेषु गृहस्थतीर्थिकैः, तत्र व्यवस्थितः सन् यदि स्त्रीभिः प्रार्थ्यते ततस्ताः शुभमार्गार्गला इति ज्ञात्वा ज्ञपरिज्ञया प्रत्याख्यान परिज्ञया परिहरन् सागारिकं - मैथुनं न सेवेत, शून्येषु च भावमैथुनं न सेवेत, इत्येवं स भगवान् स्वयम् आत्मना वैराग्यमार्गमात्मानं प्रवेश्य धर्म्मध्यानं शुक्लध्यानं वा ध्यायति ॥ तथा-ये केचन इमेऽगारं गृहं तत्र तिष्ठन्तीति अगारस्थाः - गृहस्थास्तैर्मिश्रीभावमुपगतोऽपि द्रव्यतो भावतश्च तं मिश्रीभावं प्रहाय - त्यक्त्वा स भगवान् धर्मध्यानं ध्यायति, तथा कुतश्चिन्निमित्ताद्गृहस्थैः पृष्टोऽपृष्टो वा न वक्ति, स्वकार्याय गच्छत्येव, न तैरुक्तो मोक्षपथमतिवर्त्तते ध्यानं वा, Jain Education International For Personal & Private Use Only उपधा० ९ उद्देशकः १ ॥ ३०२ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640