SearchBrowseAboutContactDonate
Page Preview
Page 599
Loading...
Download File
Download File
Page Text
________________ सव्वेसिं तवोकम्मं निरुवसग्गं तु वण्णिय जिणाणं । नवरं तु वद्धमाणस्स सोवसग्गं मुणेयव्वं ॥ २७७ ॥ तित्थयरो चउनाणी सुरमहिओ सिज्झियव्वय धुवम्मि । अणिगृहियबलविरओ तवोविहाणंमि उज्जमइ ॥ किं पुण अवसेसेहिं दुक्खक्खयकारणा सुविहिएहिं । होइ न उज्जमियव्वं सपच्चवायंमि माणुस्से १ ॥ २७९ ॥ गाथात्रयमप्युत्तानार्थम् ॥ अध्ययनार्थाधिकारं प्रतिपाद्योद्देशार्थाधिकारं प्रतिपादयन्नाह - चरिया १ सिज्जा य२ परीसहाय ३ आयंकिया (ए) चिगिच्छा ४ य । तवचरणेणऽहिगारो चउसुद्देसेसु नायव्वो ॥ २८०॥ चरणं चर्यत इति वा चर्या - श्रीवीरवर्द्धमानस्वामिनो विहारः, अयं प्रथमोद्देश केऽर्थाधिकारः १, द्वितीयोदेशके त्वयमर्थाधिकारः, तद्यथा - शय्या - वसतिः सा च यादृग्भगवत आसीत् तादृग्वक्ष्यते २, तृतीये त्वयमर्थाधिकारः - मार्गाच्यवननिर्जरार्थं परिषोढव्याः परीषहाः, उपलक्षणार्थत्वादुपसर्गाश्चानुकूलप्रतिकूला वर्द्धमानस्वामिनो येऽभूवन् तेऽत्र प्रतिपाद्यन्ते ३, चतुर्थे त्वयमर्थाधिकारः, तद्यथा - 'आतङ्किते' क्षुत्पीडायामातङ्कोत्पत्तौ विशिष्टाभिग्रहावाप्ताहारेण चिकित्सेदिति ४, तपश्चरणाधिकारस्तु चतुर्ष्वप्युद्देशकेष्वनुयायीति गाथार्थः ॥ निक्षेपत्रिधा - ओघनिष्पन्नो नामनिष्पन्नः सूत्रालापकनिष्पन्नश्च तत्रौघनिष्पन्ने निक्षेपेऽध्ययनं, नामनिष्पन्ने तूपधानश्रुतमिति द्विपदं नाम, तत्रोपधानस्य श्रुतस्य च यथाक्रमं निक्षेपः कर्तव्य इति न्यायादुपधाननिक्षेपचिकीर्षयाऽऽह Jain Education International नामंठवणुवहाणं दव्वे भावे य होइ नायव्वं । एमेव य सुत्तस्सवि निक्खवो चउव्विहो होइ ॥ २८९ ॥ नामोपधानं स्थापनोपधानं द्रव्योपधानं भावोपधानं च श्रुतस्याप्येवमेव चतुर्द्धा निक्षेपः, तत्र द्रव्यश्रुतमनुपयुक्तस्य For Personal & Private Use Only www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy