________________
श्रीआचा राङ्गवृत्तिः
(शी०)
॥ २९६ ॥
अथोपधानश्रुताख्यं नवममध्ययनम्
उक्तमध्ययनमष्टमं साम्प्रतं नवममारभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तराध्ययनेष्वष्टसु योऽर्थोऽभिहितः स तीर्थकृता वीरवर्द्धमानस्वामिना स्वत एवाचीर्ण इत्येतन्नवमेऽध्ययने प्रतिपाद्यते,) अनन्तराध्ययन सम्बन्धस्त्वयम् - इहाभ्युद्यतमरणं त्रिप्रकारमभिहितं, तत्रान्यतरस्मिन्नपि व्यवस्थितोऽष्टाध्ययनार्थविधायिनमतिघोरपरीषहोपसर्गसहिष्णुमाविष्कृतसन्मार्गावतारं तथा घातितघातिचतुष्टयाविर्भूतानन्तातिशयाप्रमेयमहाविषयस्वपरावभासककेवलज्ञानं भगवन्तं श्रीवर्द्धमानस्वामिनं समवसरणस्थं सत्त्वहिताय धर्म्मदेशनां कुर्वाणं ध्यायेदित्येतत्प्रतिपादनार्थमिदमध्ययनमुच्यते, इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमेऽर्थाधिकारो द्वेधा-अध्ययनार्थाधिकार उद्देशार्थाधिकारश्च तत्राध्ययनार्थाधिकारो लेशतोऽभिहितस्तमेव नियुक्तिकारः स्पष्टतरं बिभणिपुराह
जो जहया तित्थयरो सो तइया अप्पणो य तित्थम्मि । वण्णेइ तवोकम्मं ओहाणसुयंमि अज्झयणे ॥ २७६ ॥ यो यदा तीर्थदुयते स तदाऽऽत्मीये तीर्थे आचारार्थप्रणयनावसानाध्ययने स्वतपःकर्म्म व्यावर्णयतीत्ययं सर्वतीर्थकृतां कल्पः, ( इह पुनरुपधानश्रुताख्यं चरममध्ययनमभूत् अत उपधानश्रुतमित्युक्तमिति ॥ किमेकाकारं केवलज्ञानव| त्सर्वतीर्थकृतां तपःकम्मतान्यथेत्या रे कान्युदासार्थमाह
Jain Education International
For Personal & Private Use Only
उपधा०९
उद्देशकः १
॥ २९६ ॥
www.jainelibrary.org