Book Title: Acharangsutram Part 01
Author(s): Shilankacharya,
Publisher: Agamoday Samiti
View full book text
________________
उपधा०९
श्रीआचाराङ्गवृत्तिः (शी०)
उद्देशका
॥२९७॥
यत् श्रुतं द्रव्यार्थ वा यत् श्रुतं कुप्रावचनिकश्रुतानि चेति द्रव्यश्रुतम् , भावश्रुतं त्वङ्गानङ्गप्रविष्टश्रुतविषयोपयोगः॥ तत्र सुगमनामस्थापनाव्युदासेन द्रव्याद्युपधानप्रतिपादनायाह
दव्वुवहाणं सयणे भावुवहाणं तवो चरित्तस्स । तम्हा उ नाणदसणतवचरणेहिं इहाहिगयं ॥ २८२॥ उप-सामीप्येन धीयते-व्यवस्थाप्यत इत्युपधानं द्रव्यभूतमुपधानं द्रव्योपधानं, तत्पुनः शय्यादौ सुखशयनार्थ शिरो|ऽवष्टम्भनवस्तु, 'भावोपधान मिति भावस्योपधानं भावोपधानं, तत्पुनर्ज्ञानदर्शनचारित्राणि तपो वा सबाह्याभ्यन्तरं, तेन हि चारित्रपरिणतभावस्योपष्टम्भनं क्रियते, यत एवं तस्मात् ज्ञानदर्शनतपश्चरणैरिहाधिकृतमिति गाथार्थः ॥ किं पुनः कारणं चारित्रोपष्टम्भकतया तपो भावोपधानमुच्यते इत्याह
जह खलु मइलं वत्थं सुज्झइ उदगाइएहिं दव्वेहिं । एवं भावुवहाणेण सुज्झए कम्ममढविहं ॥ २८३ ॥ 'यथे'त्युदाहरणोपन्यासार्थः यथैतत्तथाऽन्यदपि द्रष्टव्यमित्यर्थः, खलुशब्दो वाक्यालङ्कारे, यथा मलिनं वस्त्रमुदकादिभिर्द्रव्यैः शुद्धिमुपयाति एवं जीवस्यापि भावोपधानभूतेन सबाह्याभ्यन्तरेण तपसा अष्टप्रकारं कर्म शुद्धिमुपयातीति ॥ अस्य च कर्मक्षयहेतोस्तपस उपधानश्रुतत्वेनात्रोपात्तस्य 'तत्त्वभेदपर्यायाख्ये'तिकृत्वा पर्यायदर्शनायाह-यदिवा तपोऽनुष्ठानेनापादिता अवधूननादयः कर्मापगमविशेषाः सम्भवन्तीत्यतस्तान् दर्शयितुमाहओधूणण धुणण नासण विणासणं झवण खवण सोहिकरं।छेयण भेयण फेडण डहणं धुवणं च कम्माणं ॥२८॥ तत्रावधूननम्-अपूर्वकरणेन कर्मग्रन्थे दापादनं, तच्च तपोऽन्यतरभेदसामर्थ्याद्भवतीत्येषा क्रिया शेषेष्वप्येकादश
॥२९७॥
Jain Education Inter
nal
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640