Book Title: Acharangsutram Part 01
Author(s): Shilankacharya, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 591
________________ चयेप्रसारयेद्वा, किमर्थमेतदिति चेद्दर्शयति-कायस्य-शरीरस्य प्रकृतिपेलवस्य साधारणार्थ, कायसाधारणाच्च तसीडाकृ|तायुष्कोपक्रमपरिहारेण स्वायुःस्थितिक्षयान्मरणं यथा स्यात्, न पुनस्तेषां महासत्त्वतया शरीरपीडोत्थापितचित्तस्यान्य थाभावः स्यादिति भावः, ननु च निरुद्धसमस्तकायचेष्टस्य शुष्ककाष्ठवदचेतनतया पतितस्य प्रचुरतरपुण्यप्राग्भारोऽभि|हित इति, नायं नियमः, संविशुद्धाध्यवसायतया यथाशक्त्यारोपितभारनिर्वाहिणः तत्तुल्य एव कर्मक्षयः अत्राप्यसौ वाशब्दात्तत्र वा पादपोपगमनेऽचेतनवत्सक्रियोऽपि निष्क्रिय एव, यदिवा 'अत्रापि' इङ्गितमरणेऽचेतनवच्छुष्ककाष्ठवत्सवक्रियारहितो यथा पादपोपगमने तथा सति सामर्थ्य तिष्ठेद् ॥१५॥ एतत्सामर्थ्याभावे चैतत्कुर्यादित्याह-यदि निषण्णस्यानिषण्णस्य वा गात्रभङ्गः स्यात् , ततः परिकामेत्-चक्रम्याद् यथानियमिते देशेऽकुटिलया गत्या गतागतानि कुर्यात् , तेनापि श्रान्तः सन् अथवोपविष्टस्तिष्ठेत् , 'यथायतो' यथाप्रणिहितगात्र इति, यदा पुनः स्थानेनापि परिक्लममियात् तद्यथा-निषण्णो वा पर्यङ्केण वा अर्द्धपर्यङ्केण वोत्कुटुकासनो वा परिताम्यति तदा निषण्णः स्यात् , तत्राप्युत्तानको वा पार्श्वशायी वा दण्डायतो वा लगण्डशायी वा यथा समाधानमवतिष्ठेत् ॥ १६ ॥ किं च आसीणेऽणेलिसं मरणं, इन्दियाणि समीरए । कोलावासं समासज्ज, वितहं पाउरे सए ॥ १७॥ जओ वजं समुप्पजे, न तत्थ अवलम्बए । तर उक्कसे अप्पाणं, फासे तत्थाहियासए ॥ १८ ॥ अयं चाययतरे सिया, जो एवमणुपालए। सव्वगायनिरो Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640