Book Title: Acharangsutram Part 01
Author(s): Shilankacharya,
Publisher: Agamoday Samiti
View full book text
________________
धर्माचरणमित्याकलय्य सर्वपीडासहिष्णुर्भवेदिति ॥१८॥ गत इङ्गितमरणाधिकारः, साम्प्रतं पादपोपगमनमाश्रित्याहअनन्तरमभिधास्यमानत्वाद्योऽयं प्रत्यक्षो मरणविधिः, स चाऽऽयततरो, (न केवलं भक्तपरिज्ञाया इङ्गितमरणविधिरायततरः, अयं च तस्मादायततर इति चशब्दार्थः, आयततर इत्याङभिविधौ सामस्त्येन यत आयतः, अयमनयोरतिशयेनायत आयततरः, यदिवाऽयमनयोरतिशयेनात्तो-गृहीत आत्ततरः, यत्नेनाध्यवसित इत्यर्थः, तदेवमयं पादपोपगमनमरणविधिरात्ततरो-दृढतरः स्याद्भवेत् , अत्रापि यदिङ्गितमरणे प्रव्रज्यासंलेखनादिकमुक्तं तत्सर्वं द्रष्टव्यमिति, यद्यसावायततरः ततः किमिति दर्शयति-यो भिक्षुः ‘एवम्' उक्तविधिनैव पादपोपगमनविधिमनुपालयेत् 'सर्वगात्रनिरोधेऽपि' उत्तप्यमानकायोऽपि मूर्छन्नपि मरणसमुद्घातगतो वा भक्ष्यमाणमांसशोणितोऽपि क्रोष्टगृद्रपिपीलिकादि-| भिर्महासत्त्वतयाऽऽशंसितमहाफलविशेषः संस्तस्मात्स्थानात्-प्रदेशात् द्रव्यतो भावतोऽपि शुभाध्यवसायस्थानान्न व्युद्धमेत्-न स्थानान्तरं यायात् ॥१९॥ किं च-'अय' मित्यन्तःकरणनिष्पन्नत्वात्प्रत्यक्षः 'उत्तमः' प्रधानो मरणविधिः सर्वो
त्तरत्वाद्धर्मो-विशेषः पादपोपगमनरूपो मरणविशेष इति, उत्तमत्वे कारणं दर्शयति–'पूर्वस्थानस्य प्रग्रह' इति पञ्चम्यर्थे तषष्ठी पूर्वस्थानाद्भक्तपरिज्ञेङ्गितमरणरूपात्मकर्षण ग्रहोऽत्र पादपोपगमने, प्रगृहीततरमेतदित्यर्थः, तथाहि-अत्र यदिङ्गि
तमरणानुमतं कायपरिस्पन्दनं तदपि निषेध्यते अच्छिन्नमूलपादपवन्निश्चेष्टो निष्क्रियो दह्यमानश्छिद्यमानो वा विषमप४|| तितो वा तथैवास्ते न तस्मात्स्थानाचलति, चिलातपुत्रवत् , एतदेव दर्शयति-अचिरं स्थानं, तच्च स्थण्डिलं तत्पूर्वविधिना
प्रत्युपेक्ष्य तस्मिन् प्रत्युपेक्षिते स्थण्डिले बिहरेदिति, अत्र पादपोपगमनाधिकाराद्विहरणं तद्विधिपालनमुक्तं, तच्च स्थाना
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640