________________
कर्मशत्रुजयसहायानितिकृत्वाऽपरीषहानेव मन्यते ॥ २१॥ ते पुनः कियन्तं कालं सोढव्या इत्याशङ्काव्युदासार्थमाह'यावजीवं' यावत्प्राणधारणं तावत्सरीषहा उपसर्गाश्च सोढव्या इत्येतत् 'सख्याय' ज्ञात्वा तानध्यासयेदिति, यदिवा न मे यावजीवं परीषहोपसर्गा इत्येतत्सख्याय-ज्ञात्वाऽधिसहेत, यदिवा यावजीवमिति-यावदेव जीवितं तावत्परीषहोपसर्गजनिता पीडेति, तत्पुनः कतिपयनिमेषाऽवस्थायि एतदवस्थस्य ममात्यन्तमल्पमेवेत्यत एतत्सङ्ख्याय-ज्ञात्वा संवृतो यथानिक्षिप्तत्यक्तगात्रो 'देहभेदाय' शरीरत्यागायोत्थित इतिकृत्वा 'प्राज्ञः' उचितविधानवेदी, यद्यत्कायपीडाकार्युपतिष्ठते तत्तत्सम्यगधिसहेत ॥ २२ ॥ एवंभूतं च साधुमुपलभ्य कश्चिद्राजादि गैरुपनिमन्त्रयेत्, तत्प्रतिविधानार्थमाह|भेदनशीला भिदुराः-शब्दादयः कामगुणास्तेषु प्रभूततरेष्वपि 'न रज्येत्' न राग यायात्, पाठान्तरं वा 'कामेसु बहुलेसुवि' इच्छामदनरूपेषु कामेषु बहुलेषु-अनल्पेष्वपीत्यर्थः, यद्यपि राजा राज्यकन्यादानादिनोपप्रलोभयेत् तथापि तत्र न गाय॑मियात्, तथा इच्छारूपो लोभ इच्छालोभः-चक्रवर्तीन्द्रत्वाद्यभिलाषादिको निदानविशेषस्तमसौ निर्जरा|पेक्षी न सेवेत, सुरर्द्धिदर्शनमोहितो बह्मदत्तवन्निदानं न कुर्यादित्यर्थः, तथा चागमः-'इहलोगासंसप्पओगे १ परलोगासंसप्पओगे २ जीवियासंसप्पयोगे ३ मरणासंसप्पयोगे ४ कामभोगासंसप्पयोगे ५ इत्यादि, 'वर्णः' संयमो मोक्षो वा स च सूक्ष्मो दुर्जेयत्वात् , पाठान्तरं वा-धुववन्नमि'त्यादि, ध्रुवः-अव्यभिचारी स चासौ वर्णश्च धववर्णस्तं संप्रेक्ष्य ध्रुवां वा शाश्वतीं यशःकीर्ति पर्यालोच्य कामेच्छालोभविक्षेपं कुर्यादिति ॥ २३ ॥ किं च-शाश्वता-यावज्जीवमपरिक्षया
भा.सू. ५०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org