Book Title: Acharangsutram Part 01
Author(s): Shilankacharya,
Publisher: Agamoday Samiti
View full book text
________________
Jain Education
जीवितं जह्यात्, न पुनराचारखण्डनं कुर्यादिति भावार्थः । तदेवमन्येन साधम्मिकेण वैयावृत्त्यं क्रियमाणमनुज्ञातं, साम्प्रतं स एवापरस्य कुर्यादिति दर्शयितुमाह - 'चः' समुच्चये अपिशब्दः पुनः शब्दार्थे, स च पूर्वस्माद्विशेषदर्शनार्थः, 'खलुः' वाक्यालङ्कारे, अहं च पुनरप्रतिज्ञप्तः - अनभिहितः प्रतिज्ञप्तस्य - वैयावृत्त्यकरणायाभिहितस्य अग्लानो ग्लानस्य निर्जरामभिकाङ्क्ष्य साधम्मिकस्य वैयावृत्त्यं कुर्या, किमर्थ ? – 'करणाय' तदुपकरणाय तदुपकारायेत्यर्थः, तदेवं प्रतिज्ञां परिगृह्यापि भक्तपरिज्ञया प्राणान् जह्यात् न पुनः प्रतिज्ञामिति सूत्रभावार्थः । इदानीं प्रतिज्ञाविशेषद्वारेण चतुर्भङ्गिकामाह - एकः कश्चिदेवम्भूतां प्रतिज्ञां गृह्णाति तद्यथा - ग्लानस्यापरस्य साधर्मिकस्याहारादिकमन्वेषयिष्यामि, अपरं च वैयावृत्त्यं यथोचितं करिष्यामि, तथाऽपरेण च साधर्मिकेणाहृतमानीतमाहारादिकं स्वादयिष्यामि - उपभोक्ष्ये, एवम्भूतां प्रतिज्ञामाहृत्य-गृहीत्वा वैयावृत्त्यं कुर्यादिति १ तथाऽपर आहृत्य - प्रतिज्ञां गृहीत्वा यथाऽपरनिमित्तमन्वीक्षिष्ये आहारादिकमाहृतं चापरेण न स्वादयिष्यामीति २, तथाऽपर आहृत्य प्रतिज्ञामेवम्भूतां तद्यथा-नापरनिमित्तमन्वीक्षिष्याम्याहारादिकमाहृतं चान्येन स्वादयिष्यामीति ३, तथाऽपर आहृत्य प्रतिज्ञामेवम्भूतां तद्यथा-नान्वीक्षिष्येऽपरनिमित्तमाहारादिकं नाप्याहृतमन्येन स्वादयिष्यामीति ४, एवम्भूतां च नानाप्रकारां प्रतिज्ञां गृहीत्वा कुतश्चिद् ग्लायमानोऽपि जीवितपरित्यागं कुर्यात्, न पुनः प्रतिज्ञालोपमिति । अमुमेवार्थमुपसंहारद्वारेण दर्शयितुमाह - 'एवम्' उक्तविधिना 'स' भिक्षुरखगततत्त्वः शरीरादिनिष्पिपासुः यथाकीर्त्तितमेव धर्म्मम् उक्तस्वरूपं सम्यगभिजानन् - आसेवनापरिज्ञया आसेवमानः, तथा लाघविकमागमयन्नित्यादि यच्चतुर्थोद्देशकेऽभिहितं तदत्र वाच्यमिति, तथा 'शान्तः' कषायोपशमाच्छ्रान्तो वा अ
Anal
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640