Book Title: Acharangsutram Part 01
Author(s): Shilankacharya, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 587
________________ कस्य सम्बन्धि तदायुः ! - आत्मनः, एतदुक्तं भवति - आत्मायुषो यं क्षेमप्रतिपालनोपायं जानीत तं क्षिप्रमेव शिक्षेत्-व्यापारयेत् पण्डितो - बुद्धिमान्, 'तस्यैव' संलेखना कालस्य 'अन्तरद्धाए'ति अन्तरकालेऽर्द्धसंलिखित एव देहे देही यदि कश्चित् वातादिक्षोभात् आतङ्क आशुजीवितापहारी स्यात् ततः समाधिमरणमभिकाङ्क्षन् तदुपशमोपायमेषणीयविधिनाऽभ्यङ्गादिकं विदध्यात्, पुनरपि संलिखेत्, यदिवाऽऽत्मनः आयुःक्षेमस्य- जीवितस्य यत्किमप्युपक्रमणम् - आयुःपुगलानां संवर्त्तनं समुपस्थितं तज्जानीत, ततस्तस्यैव संलेखनाकालस्य मध्येऽव्याकुलितमतिः क्षिप्रमेव भक्तपरिज्ञानादिकं शिक्षेत | - आसेवेत पण्डितो - बुद्धिमानिति ॥ ६ ॥ संलेखनाशुद्धकायश्च मरणकालं समुपस्थितं ज्ञात्वा किं कुर्यादित्याह - ग्रामः - प्रतीतो, ग्रामशब्देन चात्र प्रतिश्रय उपलक्षितः, प्रतिश्रय एव स्थण्डिलं- संस्तारकभुवं प्रत्युपेक्ष्य, तथा अरण्ये वेत्यनेन चोपाश्रयाद्वहिरित्येतदुपलक्षितम्, उद्याने गिरिगुहायामरण्ये वा स्थण्डिलं प्रत्युपेक्ष्य विज्ञाय चाल्पप्राणं- प्राणिरहितम्, ग्रामादियाचितानि प्रासुकानि दर्भादिमयानि तृणानि संस्तरेत् 'मुनिः' यथोचितकालस्य वेत्तेति ॥ ७॥ संस्तीर्य च तृणानि यत्कुर्या - तदाह-न विद्यते आहारोऽस्येत्यनाहारः तत्र यथाशक्ति यथासमाधानं च त्रिविधं चतुर्विधं वाऽऽहारं प्रत्याख्यायारोपितपञ्चमहाव्रतः क्षान्तः - क्षामित समस्त प्राणिगणः समसुखदुःखः आवर्जितपुण्यप्राग्भारतया मरणादविभ्यत् संस्तारके त्वग्वर्त्तनं कुर्यात्, तत्र च स्पृष्टः परीषहोपसर्गैस्त्यक्त देहतया सम्यक्तानध्यासयेद् - अधिसहेत, तत्र मानुष्यैरनुकूल प्रतिकूलैः परीषहोपसगैः स्पृष्टो-व्याप्तो नातिवेलमुपचरेत् न मर्यादोलङ्घनं कुर्यात्, पुत्रकलत्रादिसम्बन्धान्नार्तध्यानवशगो भूयात्, प्रतिकूलैर्वा परीषहोपसर्गैर्न क्रोधनिघ्नः स्यादिति ॥ ८ ॥ एतदेव दर्शयितुमाह Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640