SearchBrowseAboutContactDonate
Page Preview
Page 587
Loading...
Download File
Download File
Page Text
________________ कस्य सम्बन्धि तदायुः ! - आत्मनः, एतदुक्तं भवति - आत्मायुषो यं क्षेमप्रतिपालनोपायं जानीत तं क्षिप्रमेव शिक्षेत्-व्यापारयेत् पण्डितो - बुद्धिमान्, 'तस्यैव' संलेखना कालस्य 'अन्तरद्धाए'ति अन्तरकालेऽर्द्धसंलिखित एव देहे देही यदि कश्चित् वातादिक्षोभात् आतङ्क आशुजीवितापहारी स्यात् ततः समाधिमरणमभिकाङ्क्षन् तदुपशमोपायमेषणीयविधिनाऽभ्यङ्गादिकं विदध्यात्, पुनरपि संलिखेत्, यदिवाऽऽत्मनः आयुःक्षेमस्य- जीवितस्य यत्किमप्युपक्रमणम् - आयुःपुगलानां संवर्त्तनं समुपस्थितं तज्जानीत, ततस्तस्यैव संलेखनाकालस्य मध्येऽव्याकुलितमतिः क्षिप्रमेव भक्तपरिज्ञानादिकं शिक्षेत | - आसेवेत पण्डितो - बुद्धिमानिति ॥ ६ ॥ संलेखनाशुद्धकायश्च मरणकालं समुपस्थितं ज्ञात्वा किं कुर्यादित्याह - ग्रामः - प्रतीतो, ग्रामशब्देन चात्र प्रतिश्रय उपलक्षितः, प्रतिश्रय एव स्थण्डिलं- संस्तारकभुवं प्रत्युपेक्ष्य, तथा अरण्ये वेत्यनेन चोपाश्रयाद्वहिरित्येतदुपलक्षितम्, उद्याने गिरिगुहायामरण्ये वा स्थण्डिलं प्रत्युपेक्ष्य विज्ञाय चाल्पप्राणं- प्राणिरहितम्, ग्रामादियाचितानि प्रासुकानि दर्भादिमयानि तृणानि संस्तरेत् 'मुनिः' यथोचितकालस्य वेत्तेति ॥ ७॥ संस्तीर्य च तृणानि यत्कुर्या - तदाह-न विद्यते आहारोऽस्येत्यनाहारः तत्र यथाशक्ति यथासमाधानं च त्रिविधं चतुर्विधं वाऽऽहारं प्रत्याख्यायारोपितपञ्चमहाव्रतः क्षान्तः - क्षामित समस्त प्राणिगणः समसुखदुःखः आवर्जितपुण्यप्राग्भारतया मरणादविभ्यत् संस्तारके त्वग्वर्त्तनं कुर्यात्, तत्र च स्पृष्टः परीषहोपसर्गैस्त्यक्त देहतया सम्यक्तानध्यासयेद् - अधिसहेत, तत्र मानुष्यैरनुकूल प्रतिकूलैः परीषहोपसगैः स्पृष्टो-व्याप्तो नातिवेलमुपचरेत् न मर्यादोलङ्घनं कुर्यात्, पुत्रकलत्रादिसम्बन्धान्नार्तध्यानवशगो भूयात्, प्रतिकूलैर्वा परीषहोपसर्गैर्न क्रोधनिघ्नः स्यादिति ॥ ८ ॥ एतदेव दर्शयितुमाह Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy