________________
श्रीआचाराङ्गवृत्तिः (शी०)
विमो०८ उद्देशका
॥२९
॥
ASULIREACHIRIA SARA
आहारयामि तावत्कतिचिद्दिनानि पुनः संलेखनाशेषं विधास्येऽहमित्येवं नाहारान्तिकमियादिति ॥॥ किं च-तत्र संलेख-| नायां व्यवस्थितः सर्वदा वा साधुजीवितं-प्राणधारणलक्षणं नाभिकाङ्केत्, नापि क्षुद्वेदनापरीषहमनधिसहमानो मरणं प्रार्थयेद् 'उभयतोऽपि' जीविते मरणे वा न सङ्गं विदध्यात् जीविते मरणे तथा ॥४॥ किं भूतस्तर्हि स्यादित्याह
मज्झत्थो निजरापेही, समाहिमणुपालए । अन्तो बहिं विऊस्सिज, अज्झत्थं सुद्धमेसए ॥ ५॥ किंचुवकमं जाणे, आऊखेमस्समप्पणो। तस्सेव अन्तरद्धाए, खिप्पं सिक्खिज पण्डिए ॥६॥ गामे वा अदुवा रपणे, थंडिलं पडिलेहिया। अप्पपाणं तु विनाय, तणाइं संथरे मुणी ॥७॥ अणाहारो तुयहिज्जा, पुट्टो तत्थ हियासए ।
नाइवेलं उवचरे, माणुस्सेहि विपुटवं ॥८॥ रागद्वेषयोर्मध्ये तिष्ठतीति मध्यस्थः, यदिवा जीवितमरणयोर्निराकाङ्क्षतया मध्यस्थो निर्जरामपेक्षितुं शीलमस्येति निर्जरापेक्षी, स एवंभूतः समाधि-मरणसमाधिमनुपालयेत्-जीवितमरणाशंसारहितः कालपर्यायेण यन्मरणमापद्यते तत् समाधिस्थोऽनुपालयेदिति भावः । अन्तः कषायान् बहिरपि शरीरोपकरणादिकं व्युसृज्यात्मन्यध्यध्यात्मम्-अन्तःकरणं तच्छुद्धं सकलद्वन्द्वोपरमाद्विस्रोतसिकारहितमन्वेषयेत्-प्रार्थयेदिति ॥ ५ ॥ किं चउपक्रमणमुपक्रमः-उपायस्तं यं कञ्चन जानीत, कस्योपक्रमः ?-'आयुःक्षेमस्य' आयुषः क्षेमं सम्यक्पालनं तस्य,
|॥२९
॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org