SearchBrowseAboutContactDonate
Page Preview
Page 585
Loading...
Download File
Download File
Page Text
________________ दृशम् - अद्वितीयम्, सर्व ज्ञात्वा समाधिमनुपालयेदिति ॥ १ ॥ किं च- द्वे विधे प्रकारावस्येति द्विविधं तपो बाह्यमभ्यन्तरं च तद्विदित्वा - आसेव्य यदिवा मोक्षाधिकारे विमोक्तव्यं द्विविधं तदपि बाह्यं शरीरोपकरणादि आन्तरं रागादि, | तद्धेयतया विदित्वा त्यक्त्वेत्यर्थः, हेयपरित्यागफलत्वात् ज्ञानस्य, 'ण'मिति वाक्यालङ्कारे, के विदित्वा ? – 'बुद्धा' अवगततत्त्वा धर्म्मस्य - श्रुतचारित्राख्यस्य पारगाः - सम्यग्वेत्तारः, ते बुद्धा धर्म्मस्वरूपवेदिनः 'आनुपूर्व्या' प्रब्रज्यादिक्रमेण संयममनुपालय मम जीवतः कश्चिद्गुणो नास्तीत्यतः शरीरमोक्षावसरः प्राप्तः तथा कस्मै मरणायालमहमित्येवं 'संख्याय' ज्ञात्वा, आरम्भणमारम्भः - शरीरधारणायान्नपानाद्यन्वेषणात्मकस्तस्मात् त्रुय्यति - अपगच्छतीत्यर्थः, सुब्व्यत्ययेन पञ्चम्यर्थे चतुर्थी, पाठान्तरं वा 'कम्मुणाओ तिअट्टई' कर्माष्टभेदं तस्मात् त्रुटयिष्यतीति त्रुव्यति 'वर्त्तमानसामीप्ये वर्त्तमानवद्वे'( पा० ३-३ - १३१) त्यनेन भविष्यत्कालस्य वर्त्तमानता ॥२॥ स चाभ्युद्यतमरणाय संलेखनां कुर्वन् प्रधानभूतां भावसंलेखनां कुर्यादित्येतद्दर्शयितुमाह- कषः - संसारस्तस्यायाः कषायाः - क्रोधादयश्चत्वारस्तान् प्रतनून् कृत्वा ततो यत्किञ्चनाश्नीयात्, तदपि न प्रकाममिति दर्शयति- 'अल्पाहारः' स्तोकाशी षष्ठाष्टमादि संलेखनाक्रमायातं तपः कुर्व्वन् यत्रापि पारयेत्तत्राप्यल्पमित्यर्थः, (अल्पाहारतया च क्रोधोद्भवः स्यादतस्तदुपशमो विधेय) इति दर्शयति- तितिक्षते - असदृशजनादपि दुर्भाषि तादि क्षमते, रोगातङ्कं वा सम्यकू सहत इति, तथा च संलेखनां कुर्व्वन्नाहारस्याल्पतया 'अथे' त्यानन्तर्ये 'भिक्षुः' मुमुक्षुः 'ग्लायेत्' आहारेण विना ग्लानतां व्रजेत्, क्षणे मूर्च्छन्नाहारस्यैवान्तिकं - पर्यवसानं व्रजेदिति, चत्वारि विकृष्टानी|त्यादि संलेखनाद्वनं विहायाशनं विदध्यादित्यर्थः, यदिवा ग्लानतामुपगतः सन्नाहारस्यान्तिकं - समीपं न व्रजेत्, तथाहि Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy